Loading data... On slow networks this could take a few minutes.
100%

त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना ।
सानुबन्धाः कथं न स्युः संपदो मे निरापदः ॥

अन्वयः AI ब्रह्म-योनिना गुरुणा त्वया एवम् चिन्त्यमानस्य मे संपदः निरापदः सानुबन्धाः च कथं न स्युः?
सञ्जीविनीटीका (मल्लिनाथः) त्वयेति॥ ब्रह्मा योनिः कारणं यस्य तेन ब्रह्मपुत्रेण गुरुणा त्वया। एवमुक्तप्रकारेण चिन्त्यमानस्यानुध्यायमानस्य। अत एव निरापदो व्यसनहीनस्य मे संपदः सानुबन्धाः सानुस्यूतयः। अविच्छिन्ना इति यावत्। कथं न स्युः? स्युरेवेत्यर्थः॥
Summary AI When I am being cared for by you, a preceptor born of Brahmā, how could my prosperity not be free from calamities and continuous?
सारांश AI जब ब्रह्मा के पुत्र आप जैसा समर्थ गुरु मेरा हितैषी हो, तो मेरी बाधा रहित और निरंतर बढ़ने वाली संपत्तियां निश्चित रूप से संभव हैं।
पदच्छेदः AI
त्वयायुष्मद् (३.१) by you
एवम्एवम् thus
चिन्त्यमानस्यचिन्त्यमान (√चिन्त्+यक्+शानच्, ६.१) being cared for
गुरुणागुरु (३.१) by the preceptor
ब्रह्मयोनिनाब्रह्मन्योनि (३.१) born of Brahmā
सानुबन्धाःअनुबन्ध (१.३) continuous
कथम्कथम् how
not
स्युःस्युः (√अस् कर्तरि विधिलिङ् (परस्मै.) प्र.पु. बहु.) should be
सम्पदःसम्पद् (१.३) prosperities
मेअस्मद् (६.१) my
निरापदःनिर्आपद् (१.३) free from danger
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्व यै वं चि न्त्य मा स्य
गु रु णा ब्र ह्म यो नि ना
सा नु न्धाः थं स्युः
सं दो मे नि रा दः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.