त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् ।
यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥

अन्वयः AI त्यागाय संभृतार्थानाम् सत्याय मितभाषिणाम् यशसे विजिगीषूणाम् प्रजायै गृहमेधिनाम् (रघूणाम् अन्वयम् वक्ष्ये) ।
सञ्जीविनीटीका (मल्लिनाथः) त्यागायेति॥ त्यागाय सत्पात्रे विनियोगस्त्यागः, तस्मै। त्यागो विहापितं दानम् इत्यमरः (अमरकोशः २.७.३१ ) । संभृतार्थानां संचितधनानाम् । न तु दुर्व्यापाराय। सत्यायमितभाषिणां मितभाषणशीलानाम्, न तु पराभवाय। यशसे कीर्तये। यशः कीर्तिः समज्ञा च इत्यामरः। विजिगीषूणां विजेतुमिच्छूनाम्। न त्वर्थसंग्रहाय। प्रजायै संतानाय गृहमेधिनां दारपरिग्रहाणाम्, न तु कामोपभोगाय। अत्र त्यागाय इत्यादिषु चतुर्थी तदर्थ- (अष्टाध्यायी २.१.३६ ) इत्यादिना तादर्थ्ये चतुर्थी। गृहैर्दारैर्मेधन्ते संगच्छन्त इति गृहमेधिनः। दारेष्वपि गृहाः इत्यमरः (अमरकोशः २.७.३१ ) जाया च गृहिणी गृहम् इति हलायुधः। मेधृ संगमे इति धातोर्णिनिः। एभिर्विशेषणैः परोपकारित्वं सत्यवचनत्वं यसः परत्वं पितॄणां शुद्धत्वं च विवक्षितानि ॥
Summary AI They accumulated wealth for the purpose of charity, spoke sparingly to maintain truth, desired conquest only for fame, and entered the householder's life solely for the sake of continuing their progeny.
सारांश AI जो केवल दान हेतु धन संग्रह करने वाले, सत्य हेतु कम बोलने वाले, यश हेतु विजय चाहने वाले और संतान प्राप्ति हेतु ही गृहस्थ बनने वाले थे।
पदच्छेदः AI
त्यागायत्याग (४.१) for charity
संभृतार्थानाम्सम्–संभृत (√भृ+क्त)अर्थ (६.३) who accumulated wealth
सत्यायसत्य (४.१) for truth
मितभाषिणाम्मितभाषिन् (√भाष्+णिन्, ६.३) who spoke sparingly
यशसेयशस् (४.१) for fame
विजिगीषूणाम्विजिगीषु (वि√जि+सन्+उ, ६.३) who desired victory
प्रजायैप्रजा (४.१) for progeny
गृहमेधिनाम्गृहमेधिन् (६.३) who became householders
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्या गा सं भृ ता र्था नां
त्या मि भा षि णाम्
से वि जि गी षू णां
प्र जा यै गृ मे धि नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.