Loading data... On slow networks this could take a few minutes.
100%

असह्यपीडं भगवन्नृणमन्त्यमवेहि मे ।
अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः ॥

अन्वयः AI भगवन्! मे अन्त्यम् ऋणम् अनिर्वाणस्य दन्तिनः अरुन्तुदम् आलानम् इव असह्य-पीडम् अवेहि।
सञ्जीविनीटीका (मल्लिनाथः) असह्येति॥ हे भगवन्! मे ममान्त्यमृणं पैतृकमृणम्। अनिर्वाणस्य मज्जनरहितस्य। निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने इति यादवः। दन्तिनो गजस्य। अरुर्मर्म तुदतीत्यरुंतुदं मर्मस्पृक्। व्रणोऽस्त्रियामीर्ममरुः इति। अरुंतुदं तु मर्मस्पृक् इति चामरः। विध्वरुषोस्तुदः (अष्टाध्यायी ३.२.३५ ) इति खश्प्रत्ययः। अरुर्द्विषत्- (अष्टाध्यायी ६.३.६७ ) इत्यादिना मुमागमः। आलानं गजबन्धनस्तम्भमिव। आलानं बन्धनस्तम्भे इत्यमरः। असह्या सोढुमशक्या पीडा दुःखं यस्मिंस्तदवेहि। दुःसहदुःखजनकं विद्धीत्यर्थः। निर्वाणोत्थानशयनानि त्रीणि गजकर्माणिइति पालकाप्ये। ऋणं देवस्य यागेन ऋषीणां दानकर्मणा। संतत्या पितृलोकानां शोधयित्वा परिव्रजेत्
Summary AI O Lord, know that the final debt to ancestors causes me unbearable pain, like a galling post to an unquenched elephant.
सारांश AI हे भगवन! पितृ-ऋण की इस असह्य पीड़ा को आप वैसे ही समझें जैसे किसी जंगली हाथी के लिए बंधन का खंभा अत्यंत कष्टदायी होता है।
पदच्छेदः AI
असह्यपीडम्सह्य (अ√सह+यत्)पीडा (२.१) unbearable pain
भगवन्भगवत् (८.१) O Lord
ऋणम्ऋण (२.१) debt
अन्त्यम्अन्त्य (२.१) the last (to ancestors)
अवेहिअवेहि (अव√इ कर्तरि लोट् (परस्मै.) म.पु. एक.) know
मेअस्मद् (६.१) my
अरुन्तुदम्अरुन् (२.१)तुद (√तुद्+खश्) galling/painful
इवइव like
आलानम्आलान (२.१) the tying post
अनिर्वाणस्यनिर्वाण (निर्√वा+क्त) (६.१) of an untamed
दन्तिनःदन्तिन् (६.१) of an elephant
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ह्य पी डं
न्नृ न्त्य वे हि मे
रु न्तु मि वा ला
नि र्वा स्य न्ति नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.