Loading data... On slow networks this could take a few minutes.
100%

इत्या प्रसादादस्यास्त्वं परिचर्यापरो भव ।
अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ॥

अन्वयः AI इति अस्याः प्रसादात् आ त्वम् परिचर्या-परः भव ते अ-विघ्नम् अस्तु पुत्रिणाम् धुरि पिता इव स्थेयाः ।
सञ्जीविनीटीका (मल्लिनाथः) इतीति॥ इत्यनेन प्रकारेण त्वमा प्रसादात् प्रसादपर्यन्तम्। आङ् मर्यादाभिविध्योः (अष्टाध्यायी २.१.१३ ) इत्यस्य वैभाषिकत्वादसमासत्वम्। अस्या धेनोः परिचर्यापरः शुश्रूषापरो भवः; ते तवाविघ्नं विघ्नस्याभावोऽस्तु। अव्ययं विभक्ति- (अष्टाध्यायी २.१.६ ) इत्यादिनार्थाभावेऽव्ययीभावः। पितेव पुत्रीणां सत्पुत्रवताम्। प्रशंसायामिनिप्रत्ययः। धुर्यग्रे स्थेयास्तिष्ठेः। आशीरर्थे लिङ्। एर्लिङि (अष्टाध्यायी ६.४.६७ ) इत्याकारस्यैकारादेशः। त्वत्सदृशो भवत्पुत्रोऽस्त्विति भावः॥
Summary AI Be devoted to her service until she is pleased. May there be no obstacles; may you stand at the head of those with sons, just like your father.
सारांश AI जब तक यह प्रसन्न न हो जाए, तब तक इसकी सेवा में तत्पर रहें। आपकी राह बाधा रहित हो और आप अपने पिता के समान ही श्रेष्ठ पुत्र वाले बनें।
पदच्छेदः AI
इतिइति thus
अस्याःइदम् (६.१) of her (the cow)
प्रसादात्सद् (प्र√सद्, +घञ्, ५.१) until the favor
त्वम्युष्मद् (१.१) you
परिचर्यापरःचर्या (परि√चर्+यत्)पर (१.१) devoted to service
भवभव (√भू कर्तरि लोट् (परस्मै.) म.पु. एक.) be
अविघ्नम्विघ्न (१.१) freedom from obstacles
अस्तुअस्तु (√अस् कर्तरि लोट् (परस्मै.) प्र.पु. एक.) let there be
तेयुष्मद् (६.१) for you
स्थेयाःस्थेयाः (√स्था कर्तरि आशीर्लिङ् (परस्मै.) म.पु. एक.) may you stand
पितापितृ (१.१) a father
इवइव like
धुरिधुर् (७.१) at the head
पुत्रिणाम्पुत्रिन् (६.३) of those who have sons
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्या प्र सा दा स्या स्त्वं
रि र्या रो
वि घ्न स्तु ते स्थे याः
पि ते धु रि पु त्रि णाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.