Loading data... On slow networks this could take a few minutes.
100%

पृथिवीं शासतस्तस्य पाकशासवतेजसः ।
किंचिदूनमनूनर्द्धेः शरदामयुतं ययौ ॥

अन्वयः AI पाक-शासन-तेजसः अनून-ऋद्धेः तस्य पृथिवीं शासत: (सतः) किंचित्-ऊनम् शरदाम् अयुतं ययौ।
सञ्जीविनीटीका (मल्लिनाथः) पृथिवीमिति॥ पृथिवीं शासतः पालयतः पाकशासनतेजस इन्द्रवर्चसः। अनूनर्द्धेर्महासमृद्धेस्तस्य दशरथस्य किंचिदूनमीषन्न्यूनं शरदां वत्सराणाम्। स्यादृतौ वत्सरे शरत् इत्यमरः (अमरकोशः ३.३.१०० ) । अयुतं दशसहस्रं ययौ। एकदशशतसहस्राण्ययुतं लक्षं तथा प्रयुतम्। कोट्यर्बुदं च पद्मं स्थानात्स्थानं दशगुणं स्यात्॥ इत्यार्यभट्टः। इदं च मुनिशापात्परं वेदितव्यं, न तु जननात्। षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक!। दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि॥(बाल.२०।१०)इतिरामायणविरोधात्। नाप्यभिषेकात्परम्, तस्यापि सम्यग्विनीतमथ वर्महरं कुमारमादिश्य रक्षणविधौ विधिवत्प्रजानाम्(८।९४) इति कौमारानुष्ठितत्वाभिधानात्स एव विरोध इति ॥
Summary AI For him (Dasaratha), who possessed the splendor of Indra and undiminished prosperity, a little less than ten thousand years passed while he was ruling the earth.
सारांश AI इंद्र के समान तेजस्वी और अपार ऐश्वर्यशाली राजा दशरथ ने पृथ्वी पर शासन करते हुए दस हजार वर्ष व्यतीत किए।
पदच्छेदः AI
पृथिवीम्पृथिवी (२.१) the earth
शासतःशासत् (√शास्+शतृ, ६.१) of him who was ruling
तस्यतत् (६.१) his
पाकशासनतेजसःपाकशासनतेजस् (६.१) of him who had the splendor of Indra
किंचिदूनम्किंचित्ऊन (१.१) a little less than
अनूनर्द्धेःअनूनऋद्धि (६.१) of him of undiminished prosperity
शरदाम्शरद् (६.३) of years
अयुतम्अयुत (१.१) ten thousand
ययौययौ (√या कर्तरि लिट् (परस्मै.) प्र.पु. एक.) passed
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पृ थि वीं शा स्त स्य
पा शा ते सः
किं चि दू नू र्द्धेः
दा यु तं यौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.