हृदयस्थमनासन्नमकामं त्वां तपस्विनम् ।
दयालुमनघस्पृष्टं पुराणमजरं विदुः ॥

अन्वयः AI (ऋषयः) हृदय-स्थम् (अपि) अनासन्नम्, अकामम् (अपि) तपस्विनम्, दयालुम् (अपि) अनघ-स्पृष्टम्, पुराणम्, अजरम् त्वाम् विदुः ।
सञ्जीविनीटीका (मल्लिनाथः) हृदयेति॥ हे देव! त्वां हृदयस्थं सर्वान्तर्यामितया नित्यसंनिहितं तथाप्यनासन्नमगम्यरूपत्वाद्विप्रकृष्टं च विदुः। संनिकृष्टस्यापि विप्रकृष्टत्वमिति विरोधः। त्तथाऽकामम्। न कामोऽभिलाषोऽस्य तं परिपूर्णत्वान्निःस्पृहत्वाञ्च निष्कामम् । तथापि तपस्विनं तापसं विदुः। यो निष्क्रामः स कथं तपः कुरुत इति विरोधः। परिहारस्तु-ऋषिरूपेण दुस्तरं तपस्तप्यते। दयालुं परदुःखप्रहाणपरं तथाप्यनधस्पृष्टं नित्यानन्दस्वरूपत्वाददुःखिनं विदुः। अघं दुरितदुःखयोः इति विश्वः। दयालुरदुःखी चेति विरोधः। ईर्ष्यी घृणी त्वसंतुष्टः क्रोधनो नित्यशङ्कितः। परभाग्योपजीवी च षडेते नित्यदुःखिताः॥ इति महाभारते। पुराणमनादि मजरं निर्विकारत्वादक्षरं विदुः। चिरंतनं न जीर्यत इति विरोधालंकारः। उक्तं च -आभासत्वे विरोधस्य विरोधालंकृतिर्मता इति। विरोधेन चालौकिकमहिमत्वं व्यज्यते ॥
Summary AI They (the wise) know you to be residing in the heart, yet not near (unapproachable); desireless, yet the greatest ascetic; compassionate, yet untouched by sin; ancient and ageless.
सारांश AI ज्ञानीजन आपको हृदय में स्थित होने पर भी दूर, तपस्वी होने पर भी कामनारहित, दयालु होने पर भी निर्लिप्त और पुरातन होने पर भी अजर मानते हैं।
पदच्छेदः AI
हृदयस्थम्हृदयस्थ (२.१) residing in the heart
अनासन्नम्अनासन्न (२.१) yet not near
अकामंअकाम (२.१) desireless
त्वांयुष्मद् (२.१) you
तपस्विनम्तपस्विन् (२.१) yet an ascetic
दयालुम्दयालु (२.१) compassionate
अनघस्पृष्टंअनघस्पृष्ट (२.१) untouched by sin
पुराणम्पुराण (२.१) ancient
अजरंअजर (२.१) ageless
विदुःविदुः (√विद् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) they know
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हृ स्थ ना न्न
का मं त्वां स्वि नम्
या लु स्पृ ष्टं
पु रा रं वि दुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.