चतुर्वर्गफलं ज्ञानं कालावस्थाश्चतुर्युगाः ।
चतुर्वर्णमयो लोकस्त्वत्तः सर्वं चतुर्मुखात् ॥

अन्वयः AI चतुर्मुखात् त्वत्तः चतुः-वर्ग-फलम् ज्ञानम्, चतुः-युगाः काल-अवस्थाः, चतुः-वर्ण-मयः लोकः, सर्वम् (एतत् भवति) ।
सञ्जीविनीटीका (मल्लिनाथः) चतुरिति॥ चतुर्णां धर्मार्थकाममोक्षाणां वर्गश्चतुर्वर्गः। त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः इत्यमरः (अमरकोशः २.७.६२ ) । तत्फलकं यज्ज्ञानम्। चत्वारि युगानि कृतत्रेतादीनि यासु ताश्चतुर्युगाः कालावस्थाः कालपरिमाणम्। चत्वारो वर्णाः प्रकृता उच्यन्ते यस्मिन्निति चतुर्वर्णमयः। चातुर्वर्ण्यप्रचुर इत्यर्थः। तत्प्रकृतवचने मयट् (अष्टाध्यायी ५.४.२१ ) तद्धितार्थ- (अष्टाध्यायी २.१.५१ ) इत्यादिना तद्धितार्थे विषये तत्पुरुषसमासः। स लोकः। इत्येवंरूपं सर्वं चतुर्मुखाञ्चतुर्मुखरूपिणस्त्वत्तः। जातमिति शेषः। इदं सर्वमसृजत यदिदं किंच(तैत्ति.२।६) इति श्रुतेः ॥
Summary AI From you, the source of the four-faced Brahma, originates everything: knowledge which yields the four aims of life, the states of time comprising the four yugas, and the world constituted by the four social orders.
सारांश AI चारों पुरुषार्थों का फल देने वाला ज्ञान, चारों युग रूपी काल की अवस्थाएँ और चारों वर्णों वाला यह संसार, सब कुछ चार मुख वाले आप से ही उत्पन्न हुआ है।
पदच्छेदः AI
चतुर्वर्गफलंचतुर्वर्गफल (१.१) which yields the four aims of life
ज्ञानंज्ञान (१.१) knowledge
कालावस्थाःकालअवस्था (१.३) the states of time
चतुर्युगाःचतुर्युग (१.३) comprising the four yugas
चतुर्वर्णमयःचतुर्वर्णमय (१.१) constituted by the four social orders
लोकःलोक (१.१) the world
त्वत्तःयुष्मद् (५.१) from you
सर्वंसर्व (१.१) everything
चतुर्मुखात्चतुर्मुख (५.१) who are the source of the four-faced Brahma
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तु र्व र्ग लं ज्ञा नं
का ला स्था श्च तु र्यु गाः
तु र्व र्ण यो लो
स्त्व त्तः र्वं तु र्मु खात्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.