इति प्रसादयामासुस्ते सुरास्तमधोक्षजम् ।
भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ॥

अन्वयः AI इति ते सुराः तम् अधोक्षजम् प्रसादयामासुः। हि सा परमेष्ठिनः भूतार्थव्याहृतिः (अस्ति), न स्तुतिः।
सञ्जीविनीटीका (मल्लिनाथः) इतीति॥ इति ते सुरास्तमधोभूतमक्षजमिन्द्रियजं ज्ञानं यस्मिंस्तमधोक्षजं विष्णुम्। प्रसादयामासुः प्रसन्नं चक्रुः। हि यस्मात् परमेष्ठिनः सर्वोत्तमस्य तस्य देवस्य सा देवैः कृता भूतार्थव्याहृतिर्भूतस्य सत्यस्यार्थस्य व्याहृतिरुक्तिः। युक्ते क्ष्मादावृते भूतम् इत्यमरः (अमरकोशः ३.३.८५ ) । न स्तुतिर्न प्रशंसामात्रम्। महान्तो हि यथाकथंचिन्न सुलभा इति भावः। परमे स्थाने तिष्ठतीति परमेष्ठी। परमे कित्(उणा.४५०) इत्युणादिसूत्रेण तिष्ठतेरिनिः। तत्पुरुषे कृति बहुलम् (अष्टाध्यायी ६.२.२ ) इति सप्तम्या अलुक्। स्थास्थिन्स्थृणाम् इति वक्तव्यात्षत्वम् ॥
Summary AI In this manner, the gods sought to please Adhokshaja (Vishnu). Indeed, their speech was merely a statement of facts about the Supreme Being, not flattery.
सारांश AI इस प्रकार देवताओं ने भगवान विष्णु को प्रसन्न किया। वास्तव में वह केवल स्तुति नहीं थी, बल्कि परमेश्वर के सत्य स्वरूप का यथार्थ वर्णन था।
पदच्छेदः AI
इतिइति thus
प्रसादयामासुःप्रसादयामासुः (प्र√सद् +णिच् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) propitiated
तेतद् (१.३) those
सुराःसुर (१.३) gods
तम्तद् (२.१) him
अधोक्षजम्अधोक्षज (२.१) Adhokshaja (Vishnu)
भूतार्थव्याहृतिःभूतअर्थव्याहृति (१.१) a statement of facts
सातद् (१.१) that
हिहि indeed
not
स्तुतिःस्तुति (१.१) praise/flattery
परमेष्ठिनःपरमेष्ठिन् (६.१) of the Supreme Being
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ति प्र सा या मा सु
स्ते सु रा स्त धो क्ष जम्
भू ता र्थ व्या हृ तिः सा हि
स्तु तिः मे ष्ठि नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.