ऋष्यश्रृङ्गादयस्तस्य सन्तः सन्तानकाङ्क्षिणः ।
आरेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः ॥

अन्वयः AI तस्य सन्तान-काङ्क्षिणः जित-आत्मानः सन्तः ऋष्यश्रृङ्ग-आदयः ऋत्विजः पुत्रीयाम् इष्टिम् आरेभिरे ।
सञ्जीविनीटीका (मल्लिनाथः) ऋष्यशृङ्गेति॥ ऋष्यशृङ्गादयः। ऋष्यशृङ्गो नाम कश्चिदृषिः। तदादयः। ऋतुमृतौ वा यजन्तीत्यृत्विजो याज्ञिकाः। ऋत्विग्दधऋक्- (अष्टाध्यायी ३.२.५९ ) इत्यादिना क्विबन्तो निपातः। जितात्मानो जितान्तःकरणाः सन्तः संतानकाङ्क्षिणः पुत्रार्थिनस्तस्य दशरथस्य पुत्रीयां पुत्रनिमित्ताम्। पुत्राच्छ च (अष्टाध्यायी ५.१.४० ) इति छप्रत्ययः। इष्टिं यागमारेभिरे प्रचकमिरे ॥
Summary AI The self-controlled and virtuous priests led by Rishyashringa, who were desirous of progeny for the king, commenced the Putriya Ishti, a sacrifice for obtaining a son.
सारांश AI राजा की पुत्र प्राप्ति की इच्छा को जानकर ऋष्यशृंग आदि संयमी ऋषियों ने उनके लिए विधिपूर्वक पुत्रेष्टि यज्ञ का अनुष्ठान प्रारंभ किया।
पदच्छेदः AI
ऋष्यश्रृङ्गादयःऋष्यश्रृङ्गआदि (१.३) Rishyashringa and others
तस्यतद् (६.१) for him
सन्तःसत् (√अस्+शतृ, १.३) being virtuous
सन्तानकाङ्क्षिणःसन्तानकाङ्क्षिन् (१.३) desirous of progeny
आरेभिरेआरेभिरे (आ√रभ् कर्तरि लिट् (आत्मने.) प्र.पु. बहु.) commenced
जितात्मानःजितआत्मन् (१.३) self-controlled ones
पुत्रीयाम्पुत्रीया (२.१) the Putriya
इष्टिम्इष्टि (२.१) sacrifice
ऋत्विजःऋत्विज् (१.३) the priests
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ष्य श्रृ ङ्गा स्त स्य
न्तः न्ता का ङ्क्षि णः
रे भि रे जि ता त्मा नः
पु त्री या मि ष्टि मृ त्वि जः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.