Loading data... On slow networks this could take a few minutes.
100%

कार्येषु चैककार्यत्वादभ्यर्थ्योऽस्मि न वज्रिणा ।
स्वयमेव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते ॥

अन्वयः AI च कार्येषु एककार्यत्वात् वज्रिणा न अभ्यर्थ्यः अस्मि। हि वातः स्वयम् एव अग्नेः सारथ्यम् प्रतिपद्यते।
सञ्जीविनीटीका (मल्लिनाथः) कार्येष्विति॥ किंच, एककार्यत्वादावयोरेककार्यत्वाद्धेतोः। कार्येषु कर्तव्येषु विषयेषु वज्रिणेन्द्रेण। अभ्यर्थ्यःइदं कुरु इति प्रार्थनीयो नास्मि। तथा हि-वातः स्वयमेवाग्नेः सारथ्यं साहाय्यं प्रतिपद्यते प्राप्नोति। न तु वह्निप्रार्थनया। इत्येवकारार्थः। प्रेक्षावतां हि स्वार्थे स्वत एव प्रवृत्तिः, न तु परप्रार्थनया। स्वार्थश्चायं ममापीत्यर्थः॥
Summary AI Since we share a common purpose in these matters, I do not need to be requested by Indra. Indeed, the wind spontaneously becomes the charioteer for the fire, as they work together.
सारांश AI समान लक्ष्य होने के कारण इंद्र को मुझसे प्रार्थना करने की आवश्यकता नहीं है; वायु स्वयं ही अग्नि की सहायता के लिए आगे आती है।
पदच्छेदः AI
कार्येषुकार्य (७.३) in these matters
and
एककार्यत्वात्एककार्यत्व (५.१) due to having a common purpose
अभ्यर्थ्यःअभ्यर्थ्य (अभि√अर्थ्+ण्यत्, १.१) to be requested
अस्मिअस्मि (√अस् कर्तरि लट् (परस्मै.) उ.पु. एक.) I am
not
वज्रिणावज्रिन् (३.१) by Indra
स्वयम्स्वयम् spontaneously
एवएव itself
हिहि for
वातःवात (१.१) the wind
अग्नेःअग्नि (६.१) of the fire
सारथ्यम्सारथ्य (२.१) the role of charioteer
प्रतिपद्यतेप्रतिपद्यते (प्रति√पद् कर्तरि लट् (आत्मने.) प्र.पु. एक.) takes up
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
का र्ये षु चै का र्य त्वा
भ्य र्थ्यो ऽस्मि ज्रि णा
स्व मे हि वा तो ऽग्नेः
सा थ्यं प्र ति द्य ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.