Loading data... On slow networks this could take a few minutes.
100%

अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः ।
प्रसूतिं चकमे तस्मिंस्त्रैलोक्यप्रभवोऽपि यत् ॥

अन्वयः AI यत् त्रैलोक्यप्रभवः अपि तस्मिन् प्रसूतिं चकमे, अनेन तस्य राज्ञः अन्यदुर्लभाः गुणाः कथिताः।
सञ्जीविनीटीका (मल्लिनाथः) अनेनेति॥ तस्य राज्ञो दशरथस्यान्यैर्दुर्लभा असाधारणा गुणा अनेन कथइता व्याख्याताः। यद्यस्मात्त्रयो लोकास्त्रैलक्यम्। चातुर्वर्ण्यादित्वात्स्वार्थेष्यञ्। तस्य प्रभवः कारणं विष्णुरपि तस्मिन् राज्ञि प्रसूतिमुत्पत्तिं चक्रमे कामितवान्। त्रिभुवनकारणस्यापि कारणमिति परमावधिर्गुणसमाश्रय इत्यर्थः ॥
Summary AI Since even the origin of the three worlds (Vishnu) desired to be born from him, by this fact the king's virtues, rare for others, are declared.
सारांश AI यह राजा के उन अद्वितीय गुणों का परिचायक था कि स्वयं त्रिलोकीनाथ ने उनके पुत्र के रूप में जन्म लेना चाहा।
पदच्छेदः AI
अनेनइदम् (३.१) by this
कथिताःकथित (√कथ+क्त, १.३) are declared
राज्ञःराजन् (६.१) of the king
गुणाःगुण (१.३) the virtues
तस्यतद् (६.१) his
अन्यदुर्लभाःअन्यदुर्लभ (१.३) rare for others
प्रसूतिम्प्रसूति (२.१) birth
चकमेचकमे (√कम् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) desired
तस्मिन्तद् (७.१) in him
त्रैलोक्यप्रभवःत्रैलोक्यप्रभव (१.१) the origin of the three worlds
अपिअपि even
यत्यद् since
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ने थि ता रा ज्ञो
गु णा स्त स्या न्य दु र्ल भाः
प्र सू तिं मे स्मिं
स्त्रै लो क्य प्र वो ऽपि यत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.