अर्चिता तस्य कौसल्या प्रिया केकयवंशजा ।
अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः ॥

अन्वयः AI तस्य अर्चिता कौसल्या प्रिया केकयवंशजा (च आस्ताम्)। अतः ईश्वरः ताभ्यां संभावितां सुमित्राम् ऐच्छत्।
सञ्जीविनीटीका (मल्लिनाथः) अर्चितेति॥ तस्य राज्ञः। कौ पृथिव्यां सलति गच्छतीति कोसलः। सलगतौपचाद्यच्। कुशब्दस्य पृषोदरादित्वाद्गुणः। कोसलस्य राज्ञोऽपत्यं स्त्री कौसल्या। वृद्धेत्कोसलाजादाञ्ञ्यङ् (अष्टाध्यायी ४.१.१७१ ) इति ञ्यङ्, यङश्चाप् (अष्टाध्यायी ४.१.७४ ) इति चाप्। अत एव सूत्रे निर्देशात् कोसलशब्दो दन्त्यसकारमध्यमः। अर्चिता ज्येष्टा मान्या। केकयवंशजा कैकेयी। प्रियेष्टा। अतो हेतोः, ईश्वरो भर्ता नृपः सुमित्रां ताभ्यां कौसल्या-कैकेयीभ्यां संभावितां भागदानेन मानितामैच्छदिच्छति स्म। एवं च सामान्यं तिसृणां च भागप्रापणमिति राज्ञ्युचितज्ञता कौशलं च लभ्यते ॥
Summary AI His chief queen was Kausalya, and his beloved was Kaikeyi, born of the Kekaya line. Therefore, the king wished for Sumitra to also be honored by those two (by receiving a share).
सारांश AI राजा ने कौशल्या और कैकेयी को भाग देने के बाद सुमित्रा को उन दोनों के माध्यम से सम्मानित करने की इच्छा की।
पदच्छेदः AI
अर्चिताअर्चित (१.१) honored
तस्यतद् (६.१) his
कौसल्याकौसल्या (१.१) Kausalya
प्रियाप्रिया (१.१) beloved
केकयवंशजाकेकयवंशजा (१.१) born in the Kekaya dynasty
अतःअतः therefore
संभाविताम्संभावित (सम्√भू+णिच्+क्त, २.१) honored
ताभ्याम्तद् (३.२) by those two
सुमित्राम्सुमित्रा (२.१) Sumitra
ऐच्छत्ऐच्छत् (√इष् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) wished
ईश्वरःईश्वर (१.१) the lord
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्चि ता स्य कौ ल्या
प्रि या के वं जा
तः सं भा वि तां ता भ्यां
सु मि त्रा मै च्छ दी श्व रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.