Loading data... On slow networks this could take a few minutes.
100%

ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर्महीक्षितः ।
चरोरर्धार्धभागाभ्यां तामयोजयतामुभे ॥

अन्वयः AI बहुज्ञस्य महीक्षितः पत्युः चित्तज्ञे ते उभे पत्न्यौ चरोः अर्ध-अर्ध-भागाभ्यां ताम् अयोजयताम्।
सञ्जीविनीटीका (मल्लिनाथः) ते इति॥ बहुज्ञस्य सर्वज्ञस्य। उचितज्ञस्येत्यर्थः। पत्युर्महीक्षितः क्षितीश्वरस्य। विशेषणत्रयेण राज्ञोऽनुसरणीयतामाह-चित्तज्ञे अभिप्रायज्ञे ते उभे पत्न्यौ कौसल्या-कैकेय्यौ। चरोर्यावर्धभागौ समभागौ तयोर्यावर्धौ तौ च तौ भागौ चेत्यर्धभागावेकदेशौ। ताभ्यामर्धभागौ समभागौ तयोर्यावर्धौ तौ च तौ भागौ चेत्यर्धभागावेकदेशौ। ताभ्यामर्धार्धभागाभ्याम्। पुंस्यर्धोऽर्धं समेंऽशके इत्यमरः (अमरकोशः १.३.१८ ) । तां सुमित्रामयोजयतां युक्तां चक्रतुः। अयं च विभागो न रामायणसंवादी; तत्र चरोरर्धं कौसल्याया अविशिष्टार्धं कैकेय्यै शिष्टं पुनः सुमित्राया इत्यभिधानात्। किंतु पुराणान्तरसंवादो द्रष्टव्यः। उक्तं च नारसिंहे-ते पिण्‍डप्राशने काले सुमित्रायै महीपतेः। पिण्डाभ्यामल्पमल्पं तु स्वभगिन्यै प्रयच्छतः॥ इति। एवमन्यत्रापि विरेधे पुराणान्तरात्समाधातव्यम् ॥
Summary AI Those two wives (Kausalya and Kaikeyi), who knew the mind of their very wise husband, the king, both endowed her (Sumitra) with a share from half of their own respective halves of the charu.
सारांश AI पति के अभिप्राय को समझने वाली उन दोनों रानियों ने अपने-अपने भागों में से आधा-आधा हिस्सा सुमित्रा को दे दिया।
पदच्छेदः AI
तेतद् (१.२) those two
बहुज्ञस्यबहुज्ञ (६.१) of the very wise
चित्तज्ञेचित्तज्ञा (१.२) knowers of the mind
पत्न्यौपत्नी (१.२) the two wives
पत्युःपति (६.१) of the husband
महीक्षितःमहीक्षित् (६.१) of the king
चरोःचरु (६.१) of the charu
अर्धार्धभागाभ्यांअर्धअर्धभाग (३.२) with half of their respective halves
ताम्तद् (२.१) her
अयोजयताम्अयोजयताम् (√युज् +णिच् कर्तरि लङ् (परस्मै.) प्र.पु. द्वि.) they endowed
उभेउभ (१.२) both
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ते हु ज्ञ स्य चि त्त ज्ञे
त्न्यौ त्यु र्म ही क्षि तः
रो र्धा र्ध भा गा भ्यां
ता यो ता मु भे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.