ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः ।
अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् ॥

अन्वयः AI ते च उदन्वन्तम् प्रापुः, आदिपूरुषः च बुबुधे । हि भविष्यन्त्याः कार्य-सिद्धेः अव्याक्षेपः लक्षणम् (भवति) ।
सञ्जीविनीटीका (मल्लिनाथः) त इति॥ ते देवाश्चोदन्वन्तं समुद्रम्। उदन्वानुदधौ च (अष्टाध्यायी ८.२.१३ ) इति निपातः। प्रापुः। आदिपूरुषो विष्णुश्च बुबुधे। योगनिद्रां जहावित्यर्थः। गमनप्रतिबोधयोरविलम्बार्थौ चकारौ। तथा हि-अव्याक्षेपो गम्यस्याव्यासङ्गः। अविलम्ब इति यावत्। भविष्यन्त्याः कार्यसिद्धेर्लक्षणं लिङ्गं हि॥ उक्तं च-अनन्यपरता चास्य कार्यसिद्धेस्तु लक्षणम् इति॥
Summary AI And they (the gods) reached the ocean (where Vishnu resided), and the Primeval Being also became aware of their arrival. Indeed, the absence of obstacles is a sign of a future success.
सारांश AI देवताओं के क्षीरसागर पहुँचते ही आदिपुरुष विष्णु जाग गए; कार्य की सिद्धि का यह पूर्व लक्षण है कि उसमें कोई बाधा उत्पन्न नहीं हुई।
पदच्छेदः AI
तेतद् (१.३) they
and
प्रापुःप्रापुः (प्र√आप् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) reached
उदन्वन्तम्उदन्वत् (२.१) the ocean
बुबुधेबुबुधे (√बुध् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) became aware
and
आदिपूरुषःआदिपूरुष (१.१) the Primeval Being
अव्याक्षेपःअव्याक्षेप (१.१) absence of obstacles
भविष्यन्त्याःभविष्यत् (√भू+स्य+शतृ, ६.१) of a future
कार्यसिद्धेःकार्यसिद्धि (६.१) success of a task
हिहि indeed
लक्षणम्लक्षण (१.१) a sign
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ते प्रा पु रु न्व न्तं
बु बु धे चा दि पू रु षः
व्या क्षे पो वि ष्य न्त्याः
का र्य सि द्धे र्हि क्ष णम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.