राम इत्यभिरामेण वपुषा तस्य चोदितः ।
नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् ॥

अन्वयः AI तस्य अभिरामेण वपुषा चोदितः गुरुः जगत्प्रथममङ्गलं रामः इति नामधेयं चक्रे ।
सञ्जीविनीटीका (मल्लिनाथः) राम इति॥ अभिरमन्तेऽत्रेत्यभिरामं मनोहरम्। अधिकरणार्थे घञ्प्रत्ययः। तेन वपुषा चोदितः प्रेरितो गुरुः पिता दशरथस्तस्य पुत्रस्य जगतां प्रथमं मङ्गलं सुलक्षणं राम इति नामधेयं चक्रे। अभिरामत्वमेव रामशब्दप्रवृत्तिनिमित्तमित्यर्थः ॥
Summary AI Prompted by the child's charming body, the preceptor Vasiṣṭha gave him the name 'Rāma', which is the foremost auspicious blessing for the world.
सारांश AI बालक के अत्यंत मनोहर शरीर को देखकर कुलगुरु ने उनका नाम 'राम' रखा, जो संसार का सबसे पहला मंगलकारी नाम सिद्ध हुआ।
पदच्छेदः AI
रामःराम (√रम्+घञ्, १.१) Rama
इतिइति thus
अभिरामेणअभिअभिराम (√रम्+घञ्, ३.१) by the charming
वपुषावपुस् (३.१) by the body
तस्यतद् (६.१) his
चोदितःचोदित (√चुद्+क्त, १.१) prompted
नामधेयम्नामधेय (२.१) name
गुरुःगुरु (१.१) the preceptor
चक्रेचक्रे (√कृ कर्तरि लिट् (आत्मने.) प्र.पु. एक.) made
जगत्प्रथममङ्गलम्जगत्प्रथममङ्गल (२.१) the foremost auspicious thing for the world
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रा त्य भि रा मे
पु षा स्य चो दि तः
ना धे यं गु रु श्च क्रे
त्प्र ङ्ग लम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.