पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिणः ।
आरम्भं प्रथमं चक्रुर्देवदुन्दुभयो दिवि ॥

अन्वयः AI दिवि देवदुन्दुभयः पुत्रिणः तस्य पुत्रजन्मप्रवेश्यानाम् तूर्याणाम् प्रथमम् आरम्भम् चक्रुः ।
सञ्जीविनीटीका (मल्लिनाथः) पुत्रेति॥ पुत्रिणो जातपुत्रस्य तस्य दशरथस्य पुत्रजन्मनि प्रवेश्यानां प्रवेशयितव्यानाम्। वादनीयानामित्यर्थः। तूर्याणां वाद्यानामारम्भमुपक्रमं प्रथमं दिवि देवदुन्दुभयश्चक्रुः। साक्षात्पितुर्दशरथादपि देवा अधिकं प्रहृष्टा इत्यर्थः ॥
Summary AI In heaven, the celestial drums first sounded the commencement of the music that was to be played in the palace of King Daśaratha to celebrate the birth of his sons.
सारांश AI पुत्रवान दशरथ के यहाँ बजने वाले उत्सव के वाद्यों से पहले ही स्वर्ग में देव-दुंदुभियाँ गूँज उठीं।
पदच्छेदः AI
पुत्रजन्मप्रवेश्यानाम्पुत्रजन्मप्रवेश्य (६.३) to be played at the birth of a son
तूर्याणाम्तूर्य (६.३) of the musical instruments
तस्यतद् (६.१) of him
पुत्रिणःपुत्रिन् (६.१) who had sons
आरम्भम्आरम्भ (आ√रभ्+घञ्, २.१) commencement
प्रथमम्प्रथम (२.१) first
चक्रुःचक्रुः (√कृ कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) made
देवदुन्दुभयःदेवदुन्दुभि (१.३) the celestial drums
दिविदिव् (७.१) in heaven
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पु त्र न्म प्र वे श्या नां
तू र्या णां स्य पु त्रि णः
म्भं प्र मं क्रु
र्दे दु न्दु यो दि वि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.