Loading data... On slow networks this could take a few minutes.
100%

समानेऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ ।
तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः ॥

अन्वयः AI समाने सौभ्रात्रे अपि यथा उभौ रामलक्ष्मणौ तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वम् बभूवतुः हि ।
सञ्जीविनीटीका (मल्लिनाथः) समान इति॥ शोभनाः स्निग्धा भ्रातरो येषां ते सुभ्रातरः। नद्यृतश्च (अष्टाध्यायी ५.४.१५३ ) इति कब्न भवति। वन्दिते भ्रातुः इति निषेधात्। तेषां भावः सौभ्रात्रम्। यवादित्वादण्। तस्मिन्समाने चतुर्णां तुल्येऽपि यथौभौ रामलक्ष्मणौ प्रीत्या द्वन्द्वं बभूवतुः। तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं द्वौ द्वौ साहचर्येणाभिव्यक्तौ बभूवतुः। द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु (अष्टाध्यायी ८.१.१५ ) इत्यभिव्यक्तार्थे निपातः। क्वचित्कस्यचित्स्नेहो नातिरिच्यत इति भावः ॥
Summary AI Even though brotherly affection was equal among all, Rāma and Lakṣmaṇa formed one inseparable pair, while Bharata and Śatrughna formed another, bound by special mutual love.
सारांश AI यद्यपि चारों भाइयों में समान भ्रातृत्व भाव था, फिर भी राम-लक्ष्मण और भरत-शत्रुघ्न की जोड़ियाँ आपसी विशेष प्रेम के कारण प्रसिद्ध हुईं।
पदच्छेदः AI
समानेसमान (७.१) in equal
अपिअपि even
हिहि indeed
सौभ्रात्रेसुभ्रातृअण् (७.१) brotherly affection
यथायथा just as
उभौउभ (१.२) both
रामलक्ष्मणौरामलक्ष्मण (१.२) Rāma and Lakṣmaṇa
तथातथा similarly
भरतशत्रुघ्नौभरतशत्रुघ्न (१.२) Bharata and Śatrughna
प्रीत्याप्रीति (३.१) with love
द्वन्द्वम्द्वन्द्व (१.१) a pair
बभूवतुःबभूवतुः (√भू कर्तरि लिट् (परस्मै.) प्र.पु. द्वि.) became
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मा ने ऽपि हि सौ भ्रा त्रे
थो भौ रा क्ष्म णौ
था त्रु घ्नौ
प्री त्या द्व न्द्वं भू तुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.