११.१२

नाम्भसां कमलशोभिनां तथा शाखिनां च न परिश्रमच्छिदाम् ।
दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः ॥

अन्वयः

तपस्विनः कमल-शोभिनाम् अम्भसाम् (दर्शनेन) तथा परिश्रम-च्छिदाम् शाखिनाम् च (दर्शनेन) तथा प्रीतिम् न आपुः, यथा उभयोः तयोः लघुना दर्शनेन (प्रीतिम् आपुः)।

सञ्जीविनीटीका (मल्लिनाथः)

नेति॥ तप एषामस्तीति तपस्विनः। तपःसहस्राभ्यां विनीनी (अष्टाध्यायी ५.२.१०२ ) इति विनिप्रत्ययः। लघुना। त्रिष्विष्टेऽल्पे लघुः इत्यमरः (अमरकोशः ३.३.३३ ) । तयोरुभयोः कर्मभूतयोः। दर्शनेन यथा प्रीतिमापुः। तथा कमलशोभिनामम्भसां दर्शनेन नापुः। परिश्रमच्छिदां शाखिनां दर्शनेन च नापुः ॥

English Summary

The ascetics did not derive as much pleasure from seeing the lotus-adorned waters or the fatigue-removing trees as they did from just a brief sight of the two princes.

पदच्छेदः

Not
अम्भसाम्अम्भस् (६.३) of the waters
कमलशोभिनाम्कमल–शोभिन् (६.३) adorned with lotuses
तथातथा so much
शाखिनाम्शाखिन् (६.३) of the trees
and
not
परिश्रमच्छिदाम्परिश्रम–छिद् (६.३) that remove fatigue
दर्शनेनदर्शन (३.१) by the sight
लघुनालघु (३.१) brief
यथायथा as
तयोःतद् (६.२) of the two
प्रीतिम्प्रीति (२.१) pleasure
आपुःआपुः (√आप् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) derived
उभयोःउभ (६.२) of both
तपस्विनःतपस्विन् (१.३) the ascetics

छन्दः

रथोद्धता [११: रनरलग]

छन्दोविश्लेषणम्

१०११
नाम्भ सां शोभि नां था
शाखि नां रिश्रच्छि दाम्
र्श नेघु ना था योः
प्रीति मापुरु योस्तस्वि नः