कृच्छ्रलब्धमपि लब्धवर्णभा-
क्यं दिदेश मुनये सलक्ष्मणम् ।
अप्यसुप्रणयिनां रघोः कुले
न व्यहन्यत कदाचिदर्थिता ॥

अन्वयः AI लब्धवर्णभाक् सः कृच्छ्रलब्धम् अपि सलक्ष्मणम् मुनये दिदेश । रघोः कुले अर्थिता असुप्रणयिनाम् अपि कदाचित् न व्यहन्यत ।
सञ्जीविनीटीका (मल्लिनाथः) कृच्छ्रलब्धमिति॥ लब्धा वर्णाः प्रसिद्धयो यैस्ते लब्धवर्णा विचक्षणाः। सब्धवर्णो विचक्षणः इत्यमरः (अमरकोशः २.७.६ ) । तान्भजत इति लब्ध्वर्णभाक्। विद्वत्सेवीत्यर्थथः। स राजा कृच्छ्रलब्धमपि सलक्ष्मणं तं रामं मुनये दिदेशातिसृष्टवान्। तथा हि-असुप्रणयिनां प्राणार्थिनामप्यर्थिता याञ्चा रघोः कुले कदाचिदपि न व्यहन्यत न विहता। न विफलीकृतेत्यर्थः। यैरर्भिभ्यः प्राणा अपि समर्प्यन्ते तेषां पुत्रादित्यागो न विस्मयावह इति भावः ॥
Summary AI The learned King Daśaratha gave Rāma, along with Lakṣmaṇa, to the sage, even though they were obtained with great difficulty. In the lineage of Raghu, a request is never refused, even if the seekers ask for life itself.
सारांश AI राजा दशरथ ने अत्यंत कठिनाई से प्राप्त अपने दोनों पुत्रों को मुनि को सौंप दिया, क्योंकि रघुवंश में याचकों की प्रार्थना कभी विफल नहीं होती।
पदच्छेदः AI
कृच्छ्रलब्धम्कृच्छ्रलब्ध (√लभ्+क्त, २.१) obtained with great difficulty
अपिअपि even
लब्धवर्णभाक्लब्धवर्णभज् (१.१) the learned king (Daśaratha)
दिदेशदिदेश (√दिश् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) gave/assigned
मुनयेमुनि (४.१) to the sage
सलक्ष्मणम्लक्ष्मण (२.१) along with Lakṣmaṇa
अपिअपि even
असुप्रणयिनाम्असुप्रणयिन् (६.३) of those who ask for life itself
रघोःरघु (६.१) of Raghu
कुलेकुल (७.१) in the lineage
not
व्यहन्यतव्यहन्यत (वि√हन् भावकर्मणोः लङ् (आत्मने.) प्र.पु. एक.) was struck down/refused
कदाचित्कदाचित् ever
अर्थिताअर्थिता (√अर्थ्+तल्, १.१) the request
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
कृ च्छ्र ब्ध पि ब्ध र्ण भा
क्यं दि दे मु ये क्ष्म णम्
प्य सु प्र यि नां घोः कु ले
व्य न्य दा चि र्थि ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.