वामनाश्रमपदं ततः परं
पावनं श्रुतमृषेरुपेयिवान् ।
उन्मनाः प्रथमजन्मचेष्टिता-
न्यस्मरन्नपि बभूव राघवः ॥

अन्वयः AI ततः परम् राघवः ऋषेः श्रुतम् पावनम् वामन-आश्रम-पदम् उपेयिवान्। (तत्र) उन्मनाः (सन्) प्रथम-जन्म-चेष्टितानि अस्मरन् अपि बभूव।
सञ्जीविनीटीका (मल्लिनाथः) वामनेति॥ ततः परं राघवः। ऋषेः कौशिकादाख्यातुः श्रुतं पावनं शोधनं वामनस्य स्वपूर्वावतारविशेषस्याश्रमपदमुपेयिवानुपगतः सन्। उपेयिवाननाश्वाननूचानश्च (अष्टाध्यायी ३.२.१०९ ) इति निपातः। प्रथमजन्मचिष्टितानि राम-वामनयोरैक्यात्स्मृतियोग्यान्यपि रामस्याज्ञानावतारत्वेन संस्कारदौर्बल्यादस्मरन्नपि। उन्मना उत्सुको बभूव ॥
Summary AI Afterwards, Raghava reached the holy site of Vamana's hermitage, which he had heard of. There, though not consciously remembering the deeds of his previous birth (as Vamana), he became inexplicably agitated in mind.
सारांश AI इसके बाद राम वामन के पवित्र आश्रम में पहुँचे। वहाँ अपने पूर्व जन्म की लीलाओं का स्मरण न होने पर भी उनका मन स्वतः ही अत्यंत उत्साहित और चंचल हो उठा।
पदच्छेदः AI
वामनाश्रमपदंवामनाश्रमपद (२.१) the site of Vamana's hermitage,
ततःततस् Then,
परंपरम् afterwards,
पावनंपावन (२.१) the holy
श्रुतम्श्रुत (√श्रु+क्त, २.१) heard of
ऋषेःऋषि (६.१) of the sage,
उपेयिवान्उपेयिवस् (उप√इ+क्वसु, १.१) reached.
उन्मनाःउन्मनस् (१.१) Disturbed in mind,
प्रथमजन्मचेष्टितानिप्रथमजन्मचेष्टित (२.३) the deeds of his previous birth
अस्मरन्अस्मरत् (√स्मृ+शतृ, १.१) not remembering
अपिअपि even while
बभूवबभूव (√भू कर्तरि लिट् (परस्मै.) प्र.पु. एक.) he became,
राघवःराघव (१.१) Raghava
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
वा ना श्र दं तः रं
पा नं श्रु मृ षे रु पे यि वान्
न्म नाः प्र न्म चे ष्टि ता
न्य स्म न्न पि भू रा वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.