Loading data... On slow networks this could take a few minutes.
100%

भस्मसात्कृतवतः पितृद्विषः
पात्रसाञ्च वसुधां ससागराम् ।
आहितो जयविपर्ययोऽपि मे
श्लाध्य एव परमेष्ठिना त्वया ॥

अन्वयः AI पितृद्विषः भस्मसात् कृतवतः ससागराम् वसुधाम् च पात्रसात् (कृतवतः) मे, परमेष्ठिना त्वया आहितः जयविपर्ययः अपि श्लाध्यः एव ।
सञ्जीविनीटीका (मल्लिनाथः) भस्मसादिति॥ पितृद्विषः पितृवैरिणो भस्मसात्कृतवतः कोपेन भस्मीकुर्वतः। विभाषा साति कार्त्स्न्ये (अष्टाध्यायी ५.४.५२ ) इति सातिप्रत्ययः। ससागरां वसुधां च पात्रसात् पात्राधीनं देयं कृतवतः। देये त्रा च (अष्टाध्यायी ५.४.५५ ) इति चकारात्सातिः। कृतकृत्यस्य मे परमेष्ठिना परमपुरुषेण त्वयाऽऽहितः कृतो जयविपर्ययः पराजयोऽपि श्लाघ्य आशास्य एव ॥
Summary AI Parashurama said: "For me, who reduced my father's enemies to ashes and gave away the entire earth with its oceans to a worthy recipient, even this defeat inflicted by you, the Supreme Lord, is indeed praiseworthy."
सारांश AI पितृ-शत्रुओं का नाश करने वाले और पृथ्वी का दान करने वाले मेरे लिए आप जैसे परमात्मा द्वारा दी गई यह पराजय भी प्रशंसनीय ही है।
पदच्छेदः AI
भस्मसात्कृतवतःभस्मसात्कृतवत् (√कृ+क्तवतु, ६.१) of me who has reduced to ashes
पितृद्विषःपितृद्विष् (२.३) the enemies of my father
पात्रसात्पात्रसात् to a worthy recipient
and
वसुधाम्वसुधा (२.१) the earth
ससागराम्ससागरा (२.१) along with its oceans
आहितःआहित (आ√धा+क्त, १.१) inflicted
जयविपर्ययःजयविपर्यय (१.१) a defeat
अपिअपि even
मेअस्मद् (६.१) for me
श्लाध्यःश्लाध्य (√श्लाघ्+ण्यत्, १.१) praiseworthy
एवएव indeed
परमेष्ठिनापरमेष्ठिन् (३.१) by the Supreme Lord
त्वयायुष्मद् (३.१) by you
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
स्म सा त्कृ तः पि तृ द्वि षः
पा त्र सा ञ्च सु धां सा राम्
हि तो वि र्य यो ऽपि मे
श्ला ध्य मे ष्ठि ना त्व या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.