तस्मिन्गते विजयिनं परिरभ्य रामं
स्नेहादमन्यत पिता पुनरेव जातम् ।
तस्याभवत्क्षणशुचः परितोषलाभः
कक्षाग्निलङ्घिततरोरिव वृष्टिपातः ॥

अन्वयः AI तस्मिन् गते (सति), पिता विजयिनम् रामम् परिरभ्य स्नेहात् पुनः एव जातम् अमन्यत । क्षणशुचः तस्य परितोषलाभः कक्षाग्निलङ्घिततरोः वृष्टिपातः इव अभवत् ।
सञ्जीविनीटीका (मल्लिनाथः) तस्मिन्निति॥ तस्मिन् भार्गवे गते सति विजयिनं रामं पिता स्नेहात् परिरभ्यालिङ्ग्य पुनर्जातमेवामन्यत। क्षणं शुग्यस्येति विग्रहः। क्षणशुचस्तस्य दशरथस्य परितोषलाभः संतोषप्राप्तिः। कक्षाग्निना दावानलेन। कक्षः शुष्ककाननवीरुधोः इति विश्वः। लङ्घितस्याभइहतस्य तरोर्वृष्टिपात इव। अभवत् ॥
Summary AI When Parashurama had gone, his father Dasharatha embraced the victorious Rama and, out of affection, considered him born anew. For Dasharatha, whose grief had been momentary, the attainment of joy was like a rainfall upon a tree scorched by a forest fire.
सारांश AI परशुराम के जाने पर पिता दशरथ ने विजयी राम को गले लगाया और उन्हें पुनर्जन्म प्राप्त माना। क्षणिक शोक के बाद उन्हें वैसा ही संतोष मिला जैसे दावानल से झुलसे वृक्ष को वर्षा से मिलता है।
पदच्छेदः AI
तस्मिन्तत् (७.१) when he
गतेगत (√गम्+क्त, ७.१) had gone
विजयिनम्विजयिन् (२.१) the victorious
परिरभ्यपरिरभ्य (परि√रभ्+ल्यप्) having embraced
रामम्राम (२.१) Rama
स्नेहात्स्नेह (५.१) out of affection
अमन्यतअमन्यत (√मन् कर्तरि लङ् (आत्मने.) प्र.पु. एक.) thought (him)
पितापितृ (१.१) the father
पुनःपुनर् again
एवएव indeed
जातम्जात (√जन्+क्त, २.१) to be born
तस्यतत् (६.१) his
अभवत्अभवत् (√भू कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was
क्षणशुचःक्षणशुच् (६.१) of him whose grief was momentary
परितोषलाभःपरितोषलाभ (१.१) the attainment of great joy
कक्षाग्निलङ्घिततरोःकक्षाग्निलङ्घिततरु (६.१) of a tree scorched by a forest fire
इवइव like
वृष्टिपातःवृष्टिपात (१.१) a fall of rain
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
स्मि न्ग ते वि यि नं रि भ्य रा मं
स्ने हा न्य पि ता पु रे जा तम्
स्या त्क्ष शु चः रि तो ला भः
क्षा ग्नि ङ्घि रो रि वृ ष्टि पा तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.