निर्विष्टविषयस्नेहः स दशान्तमुपेयिवान् ।
आसीदासन्ननिर्वाणः प्रदीपार्चिरिवोषसि ॥

अन्वयः AI निर्विष्टविषयस्नेहः दशान्तम् उपेयिवान् सः उषसि प्रदीपार्चिः इव आसन्ननिर्वाणः आसीत् ।
सञ्जीविनीटीका (मल्लिनाथः) निर्विष्टेति॥ स्नेहयन्ति प्रीणयन्ति पुरुषमिति स्नेहाः। पचाद्यच्। स्निह्यन्ति पुरुषा येष्विति वा स्नेहाः। अधिकरणार्थे घञन्। विषयाः शब्दादयस्त एव स्नेहाः निर्विष्टा भुक्ता विषयस्नेहा येन स तथोक्तः। निर्वेशो भृतिभोगयोःइति विश्वः। दशा जीवनावस्था तस्या अन्तं वार्घकमुपेयिवान्। स दशरथः। उषसि प्रदीपार्चिरिव दीपज्वालेव। आसन्नं निर्वाणं मोक्षो यस्य स तथोक्त आसीत्। अर्चिःपक्षे तु- विषयो देश आश्रयः। भाजनमिति यावत्। विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च इति विश्वः। स्नेहस्तैलादिकरसे द्रवे स्यात्सौहृदेऽपि च इति विश्वः। दशा वर्तिका। दशा वर्ताववस्थायाम् इति विश्वः। निर्वाणैविनाशः। निर्वाणं निर्वृतौ मोक्षो विनाशे गजमज्जनेइति यादवः ॥
Summary AI King Dasharatha, having fully enjoyed worldly pleasures and reached the final stage of his life, was nearing his end (liberation). He resembled the flame of a lamp at dawn, which, having consumed its oil and reached the end of its wick, is on the verge of being extinguished.
सारांश AI सांसारिक सुखों का उपभोग कर चुके राजा दशरथ अपने जीवन के अंतिम चरण में पहुँच गए। वे मोक्ष के समीप वैसे ही लग रहे थे जैसे भोर के समय बुझने वाली दीपक की लौ।
पदच्छेदः AI
निर्विष्टविषयस्नेहःनिर्विष्टविषयस्नेह (१.१) he who had fully enjoyed the affections of worldly objects
सःतत् (१.१) he (Dasharatha)
दशान्तम्दशाअन्त (२.१) the final stage of life
उपेयिवान्उपेयिवस् (उप√इ+क्वसु, १.१) had reached
आसीत्आसीत् (√अस् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was
आसन्ननिर्वाणःआसन्ननिर्वाण (१.१) whose extinction was near
प्रदीपार्चिःप्रदीपअर्चिस् (१.१) the flame of a lamp
इवइव like
उषसिउषस् (७.१) at dawn
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नि र्वि ष्ट वि स्ने हः
शा न्त मु पे यि वान्
सी दा न्न नि र्वा णः
प्र दी पा र्चि रि वो सि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.