स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत्पुरीम् ।
नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक् ॥

अन्वयः AI सः भ्रात्रा तथा इति उक्त्वा विसृष्टः पुरीम् न एव अविशत् नन्दिग्रामगतः तस्य राज्यम् न्यासम् इव अभुनक् ।
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ स भरतो भ्रात्रा रामेण तथेत्युक्त्वा विसृष्टः सन् पुरीमयोध्यां नाविशदेव। किंतु नन्दिग्रामगतः सन्। तस्य रामस्य राज्यं न्यासमिव निक्षेपमिव। अभुनगपालयत्। न तूपभुक्तवानित्यर्थः। अन्यथा भुजोऽनवने (अष्टाध्यायी १.३.६३ ) इत्यात्मनेपदप्रसङ्गात्। भुजेर्लङ् ॥
Summary AI Dismissed by his brother Rama with the words 'so be it,' Bharata did not enter the capital city. Instead, staying in Nandigrama, he protected the kingdom as if it were a sacred trust belonging to Rama.
सारांश AI राम की आज्ञा से भरत लौटे, किंतु नगर में प्रवेश न कर नन्दिग्राम में ही रहे और राज्य का शासन एक धरोहर की तरह किया।
पदच्छेदः AI
सःतद् (१.१) He
विसृष्टःविसृष्ट (वि√सृज्+क्त, १.१) given leave
तथातथा so be it
इतिइति thus
उक्त्वाउक्त्वा (√वच्+क्त्वा) having said
भ्रात्राभ्रातृ (३.१) by his brother
not
एवएव indeed
अविशत्अविशत् (√विश् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) he entered
पुरीम्पुरि (२.१) the city
नन्दिग्रामगतःनन्दिग्रामगत (१.१) having gone to Nandigrama
तस्यतद् (६.१) his
राज्यंराज्य (२.१) kingdom
न्यासम्न्यास (२.१) a trust
इवइव like
अभुनक्अभुनक् (√भुज् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) he protected
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि सृ ष्ट स्त थे त्यु क्त्वा
भ्रा त्रा नै वा वि त्पु रीम्
न्दि ग्रा स्त स्य
रा ज्यं न्या मि वा भु नक्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.