दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः ।
मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत् ॥

अन्वयः AI ज्येष्ठे दृढभक्तिः राज्यतृष्णापराङ्मुखः भरतः इति पापस्य मातुः प्रायश्चित्तम् इव अकरोत् ।
सञ्जीविनीटीका (मल्लिनाथः) दृढेति॥ ज्येष्ठे दृढभक्ती राज्यतृष्णापराङ्मुखो भरत इति पूर्वोक्तानुष्ठानेन मातुः पापस्य प्रायश्चित्तं तदपनोदकं कर्म। अकरोदिव। इत्युत्प्रेक्षा। दृढभक्तिःइत्यत्र दृढशब्दस्य स्त्रियाः पुंवत्- (अष्टाध्यायी ६.३.३४ ) इत्यादिना पुंवद्भावो दुर्घटः। अप्रियादिषुइति निषेधात्। भक्तिशब्दस्य प्रियादिषु पाठात्। अतो दृढं भक्तिरस्येति नपुंसकपूर्वपदो बहुव्रीहिरिति गणव्याख्याने दृढभक्तिरित्येवमादिषु पूर्वपदस्य नपुंसकस्य विवक्षितत्वात्सिद्धमिति समाधेयम्। वृत्तिकारश्च-दीर्घनिवृत्तिमात्रपरो दृढभक्तिशब्दो लिङ्गविशेषस्यानुपकारत्वात्स्त्रीत्वमविवक्षितमेव। तस्मादस्त्रीलिङ्गत्वाद्दृढभक्तिशब्दस्यायं प्रयोग इत्यभिप्रायः। न्यासकारोऽप्येवम्। भोजराजस्तु-कर्मसाधनस्यैव भक्तिशब्दस्य प्रियादिपाठाद्भवानीभक्तिरित्यादौ कर्मसाधनत्वात्पुंवद्भावप्रतिषेधः। दृढभक्तिरित्यादौ भावसाधनत्वात्पुंवद्भावसिद्धिः पूर्वपदस्यइत्याह ॥
Summary AI With firm devotion to his eldest brother and being completely averse to any greed for the kingdom, Bharata acted as if he were performing an atonement for the sin committed by his mother.
सारांश AI ज्येष्ठ भाई के प्रति अटूट भक्ति और राज्य के लोभ के त्याग द्वारा भरत ने अपनी माता के किए गए पाप का मानो प्रायश्चित किया।
पदच्छेदः AI
दृढभक्तिःदृढभक्ति (१.१) of firm devotion
इतिइति Thus
ज्येष्ठेज्येष्ठ (७.१) towards the eldest
राज्यतृष्णापराङ्मुखःराज्यतृष्णापराङ्मुख (१.१) averse to the thirst for the kingdom
मातुःमातृ (६.१) of his mother
पापस्यपाप (६.१) of the sin
भरतःभरत (१.१) Bharata
प्रायश्चित्तम्प्रायश्चित्त (२.१) atonement
इवइव as if
अकरोत्अकरोत् (√कृ कर्तरि लङ् (परस्मै.) प्र.पु. एक.) he performed
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दृ क्ति रि ति ज्ये ष्ठे
रा ज्य तृ ष्णा रा ङ्मु खः
मा तुः पा स्य तः
प्रा श्चि त्त मि वा रोत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.