प्रययावातिथेयेषु वसन्नृषिकुलेषु सः ।
दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः ॥

अन्वयः AI सः आतिथेयेषु ऋषि-कुलेषु वसन् दक्षिणाम् दिशम् प्रययौ वार्षिकेषु ऋक्षेषु भास्करः इव ।
सञ्जीविनीटीका (मल्लिनाथः) प्रययाविति॥ सः रामः। अतिथिषु साधूनि आतिथेयानि। पथ्यतिथिवसतिस्वपतेर्ढञ् (अष्टाध्यायी ४.४.१०४ ) इति ढञ्प्रत्ययः। तेषु। ऋषिकुलेष्वृष्याश्रमेषु। कुलं कुल्ये गणे देहे गेहे जनपदेऽन्वयेइति हैमः। वर्षासु भवानि वार्षिकाणि। वर्षाभ्यष्ठक् (अष्टाध्यायी ४.३.१८ ) इति ठक्प्रत्ययः। तेषु। ऋक्षेषु नक्षत्रेषु राशिषु वा भास्कर इव वसन् दक्षिणां दिशं प्रययौ ॥
Summary AI Dwelling in the hospitable hermitages of sages, he proceeded toward the southern direction, just as the sun moves through the constellations during the rainy season.
सारांश AI अतिथिसत्कार करने वाले ऋषियों के आश्रमों में ठहरते हुए श्री राम दक्षिण दिशा की ओर बढ़े, जैसे सूर्य वर्षा ऋतु के नक्षत्रों में गमन करता है।
पदच्छेदः AI
प्रययौप्रययौ (प्र√या कर्तरि लिट् (परस्मै.) प्र.पु. एक.) proceeded
आतिथेयेषुआतिथेय (७.३) in the hospitable
वसन्वसन् (√वस्+शतृ, १.१) residing
ऋषिकुलेषुऋषिकुल (७.३) in the hermitages of sages
सःतद् (१.१) he
दक्षिणाम्दक्षिणा (२.१) southern
दिशम्दिश् (२.१) direction
ऋक्षेषुऋक्ष (७.३) among the constellations
वार्षिकेषुवार्षिक (७.३) of the rainy season
इवइव like
भास्करःभास्कर (१.१) the sun
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र या वा ति थे ये षु
न्नृ षि कु ले षु सः
क्षि णां दि मृ क्षे षु
वा र्षि के ष्वि भा स्क रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.