Loading data... On slow networks this could take a few minutes.
100%

पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः ।
अनपोढस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव ॥

अन्वयः AI ततः रामः कुम्भजन्मनः शासनात् पञ्चवट्याम् अनपोढस्थितिः प्रकृतौ विन्ध्याद्रिः इव तस्थौ ।
सञ्जीविनीटीका (मल्लिनाथः) पञ्चवट्यामिति॥ ततो रामः कुम्भजन्मनोऽगस्त्यस्य शासनात्। पञ्चानां वटानां समाहारः पञ्चवटी। तद्धितार्थ- (अष्टाध्यायी २.१.५१ ) इति तत्पुरुषः । संख्यापूर्वो द्विगोः (अष्टाध्यायी २.१.२२ ) इति द्विगुसंज्ञायाम् द्विगोः (अष्टाध्यायी ४.१.२१ ) इति ङीप्। द्विगुरेकवचनम् (अष्टाध्यायी २.४.१ ) इत्येकवचनम्। तस्यां पञ्चवट्याम्। विन्ध्याद्रिः प्रकृतौ वृद्धेः पूर्वावस्थायामिव। अनपोढस्थितिरनतिक्रान्तमर्यादस्तस्थौ ॥
Summary AI Then, following the command of the sage Agastya (the pitcher-born), Rama stayed in Panchavati without deviating from his righteous conduct, appearing like the Vindhya mountain remaining in its natural, humble state.
सारांश AI अगस्त्य ऋषि की आज्ञा से श्री राम पंचवटी में मर्यादापूर्वक रहने लगे, जैसे विन्ध्याचल पर्वत अपनी स्वाभाविक मर्यादा में स्थिर रहता है।
पदच्छेदः AI
पञ्चवट्याम्पञ्चवटी (७.१) in Panchavati
ततःततस् then
रामःराम (१.१) Rama
शासनात्शासन (५.१) by the command
कुम्भजन्मनःकुम्भजन्मन् (६.१) of the pot-born (Agastya)
अनपोढस्थितिःअन्अपोढस्थिति (१.१) of unshaken resolve
तस्थौतस्थौ (√स्था कर्तरि लिट् (परस्मै.) प्र.पु. एक.) stayed
विन्ध्याद्रिःविन्ध्यअद्रि (१.१) the Vindhya mountain
प्रकृतौप्रकृति (७.१) in its natural state
इवइव like
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ञ्च ट्यां तो रा मः
शा ना त्कु म्भ न्म नः
पो स्थि ति स्त स्थौ
वि न्ध्या द्रिः प्र कृ ता वि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.