फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् ।
मृग्याः परिभवो व्याघ्र्यामित्यवेहि त्वया कृतम् ॥

अन्वयः AI अस्य उपहासस्य फलम् सद्यः प्राप्स्यसि माम् पश्य त्वया व्याघ्र्याम् मृग्याः परिभवः कृतः इति अवेहि ।
सञ्जीविनीटीका (मल्लिनाथः) फलमिति॥ श्लोकद्वयेनान्वयः। अस्योपहासस्य फलं सद्यः संप्रत्येव प्राप्स्यसि। मां पश्य । त्वया कर्त्र्या कृतमुपहासरूपं करणं व्याघ्र्यां विषये मृग्याः कर्त्रअयाः परिभव इत्यवेहि ॥
Summary AI 'You shall immediately reap the fruit of this ridicule. Look at me! Know that you, a mere deer, have insulted a tigress,' she threatened.
सारांश AI शूर्पणखा ने कहा कि तुम इस उपहास का फल तुरंत पाओगी; तुमने एक शेरनी का अपमान करने वाली हिरणी जैसा व्यवहार किया है।
पदच्छेदः AI
फलम्फल (२.१) the fruit
अस्यइदम् (६.१) of this
उपहासस्यउपहास (६.१) mockery
सद्यःसद्यस् immediately
प्राप्स्यसिप्राप्स्यसि (प्र√आप् कर्तरि लृट् (परस्मै.) म.पु. एक.) you will get
पश्यपश्य (√दृश् कर्तरि लोट् (परस्मै.) म.पु. एक.) watch
माम्अस्मद् (२.१) me
मृग्याःमृगी (६.१) of a doe
परिभवःपरिभव (१.१) an insult
व्याघ्र्याम्व्याघ्री (७.१) on a tigress
इतिइति thus
अवेहिअवेहि (अव√इ कर्तरि लोट् (परस्मै.) म.पु. एक.) know
त्वयायुष्मद् (३.१) by you
कृतम्कृत (√कृ+क्त, १.१) has been done
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्यो हा स्य
द्यः प्रा प्स्य सि श्य माम्
मृ ग्याः रि वो व्या घ्र्या
मि त्य वे हि त्व या कृ तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.