त्वं रक्षसा भीरु यतोऽपनीता
तं मार्गमेताः कृपया लता मे ।
अदर्शयन्वक्तुमशक्नुवत्यः
शाखाभिरावर्जितपल्लवाभिः ॥

अन्वयः AI भीरु! यतः रक्षसा त्वम् अपनीता, तम् मार्गम् वक्तुम् अशक्नुवत्यः एताः लताः कृपया आवर्जितपल्लवाभिः शाखाभिः मे अदर्शयन् ।
सञ्जीविनीटीका (मल्लिनाथः) त्वमिति॥ हे भूरु भयशीले! ऊङुतः (अष्टाध्यायी ४.१.३६ ) इत्यूङ्। ततो नदीत्वात्संबुद्धो ह्रस्वः। त्वं रक्षसा रावणेन यतो येन मार्गेण। सार्वविभक्तिकस्तसिः। अपनीताऽपहृता तं मार्गं वागिन्द्रियाभावाद्वक्तुमशक्नुवत्य एता लता वीरुध आवर्जिता नमिताः पल्लवाः पाणिस्थानीया याभिस्ताभिः शाखाभिः स्वावयवभूताभिः कृपया मेऽदर्शयन्। हस्तचेष्टयाऽसूचयन्नित्यर्थः। शाखा वृक्षान्तरे भुजेइति विश्वः। लतादीनामपि ज्ञानमस्त्येव। तदुक्तं मनुना(१।४९)-अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताःइति ॥
Summary AI "O timid one!" says Rama, "These creepers, unable to speak, kindly showed me the path by which the Rakshasa carried you away, by pointing with their branches, which had drooping tender leaves."
सारांश AI हे भीरु! जब राक्षस तुम्हें हर ले गया, तब बोलने में असमर्थ इन लताओं ने दयावश अपनी झुकी हुई पल्लवों वाली शाखाओं के माध्यम से मुझे तुम्हारा मार्ग दिखाया था।
पदच्छेदः AI
त्वम्युष्मद् (१.१) You
रक्षसारक्षस् (३.१) by the Rakshasa
भीरुभीरु (८.१) O timid one!
यतःयतः which way
अपनीताअपनीत (अप√नी+क्त, १.१) were carried away
तम्तद् (२.१) that
मार्गम्मार्ग (२.१) path
एताःएतद् (१.३) these
कृपयाकृपा (३.१) out of compassion
लताःलता (१.३) creepers
मेअस्मद् (४.१) to me
अदर्शयन्अदर्शयन् (√दृश् कर्तरि लङ् (परस्मै.) प्र.पु. बहु.) showed
वक्तुम्वक्तुम् (√वच्+तुमुन्) to speak
अशक्नुवत्यःअशक्नुवत् (√शक्+शतृ, १.३) being unable
शाखाभिःशाखा (३.३) with their branches
आवर्जितपल्लवाभिःआवर्जितपल्लव (३.३) with drooping tender leaves
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
त्वं क्ष सा भी रु तो ऽप नी ता
तं मा र्ग मे ताः कृ या ता मे
र्श न्व क्तु क्नु त्यः
शा खा भि रा र्जि ल्ल वा भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.