Loading data... On slow networks this could take a few minutes.
100%

हविर्भुजामेधवतां चतुर्णां
मध्ये ललाटंतपसप्तसप्तिः ।
असौ तपस्यत्यपरस्तपस्वी
नाम्ना सुतीक्ष्णश्चरितेन दान्तः ॥

अन्वयः AI एधवताम् चतुर्णाम् हविर्भुजाम् मध्ये ललाटन्तप-सप्तसप्तिः इव असौ अपरः तपस्वी, नाम्ना सुतीक्ष्णः चरितेन दान्तः, तपस्यति।
सञ्जीविनीटीका (मल्लिनाथः) हविरिति॥ नाम्ना सुतीक्ष्णः सुतीक्ष्णनामा चरितेन दान्तः सौम्योऽसाक्परस्तपस्वी। एधवतामिन्धनवताम्। काष्ठं दार्विन्धनं त्वेधः इत्यमरः (अमरकोशः २.४.१३ ) । चतुर्णां हविर्भुजामग्नीनां मधअये। ललाटं तपतीति ललाटंतपः सूर्यः। असूर्यललाटयोर्दृशितपोः (अष्टाध्यायी ३.२.३६ ) इति खश्प्रत्ययः। अरुर्द्विषत्-(६।३।६७)इत्यादिना मुमागमः। ललाटंतपः सप्तसप्तिः सप्ताश्वः सूर्यो यस्य स तथोक्तः सन्। तपस्यति तपश्चरति। कर्मणो रोमन्थतपोभ्यां वर्तिचरोः (अष्टाध्यायी ३.१.१५ ) इति क्यङअ। तपसः परस्मैपदं च(वा१७३३) इति वक्तव्यम् ॥
Summary AI In the midst of four blazing sacrificial fires, like the sun scorching the forehead, this other ascetic, Sutikshna by name and self-controlled by conduct, is performing penance.
सारांश AI अग्नियों के मध्य और सिर को तपाने वाले सूर्य के नीचे सुतीक्ष्ण मुनि तपस्या कर रहे हैं। वे नाम से तीक्ष्ण किंतु व्यवहार से परम शांत और जितेन्द्रिय हैं।
पदच्छेदः AI
हविर्भुजाम्हविर्भुज् (६.३) of the fire-gods
एधवताम्एधस्वत् (६.३) of the blazing ones
चतुर्णाम्चतुर् (६.३) of the four
मध्येमध्य (७.१) in the middle of
ललाटंतपसप्तसप्तिःललाटन्तपसप्तसप्ति (१.१) the sun that scorches the forehead
असौअदस् (१.१) this
तपस्यतितपस्यति (√तपस् कर्तरि लट् (परस्मै.) प्र.पु. एक.) performs penance
अपरःअपर (१.१) another
तपस्वीतपस्विन् (१.१) ascetic
नाम्नानामन् (३.१) by name
सुतीक्ष्णःसुतीक्ष्ण (१.१) Sutikshna
and
चरितेनचरित (३.१) by conduct
दान्तःदान्त (√दम्+क्त, १.१) self-controlled
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
वि र्भु जा मे तां तु र्णां
ध्ये ला टं प्त प्तिः
सौ स्य त्य स्त स्वी
ना म्ना सु ती क्ष्ण श्च रि ते दा न्तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.