Loading data... On slow networks this could take a few minutes.
100%

एषोऽक्षमालावलयं मृगाणां
कण्डूयितारं कुशसूचिलावम् ।
सभाजने मे भुजमूर्ध्वबाहुः
सव्येतरं प्राध्वमितः प्रयुङ्क्ते ॥

अन्वयः AI ऊर्ध्वबाहुः एषः इतः मे सभाजने अक्षमाला-वलयम्, मृगाणाम् कण्डूयितारम्, कुश-सूचि-लावम् सव्येतरम् भुजम् प्राध्वम् प्रयुङ्क्ते।
सञ्जीविनीटीका (मल्लिनाथः) एष इति॥ ऊर्ध्वबाहुरेष सुतीक्ष्णोऽक्षमालैव वलयं यस्य तं मृगाणां कण्डूयितारम्। कुशा एव सूचयस्ता लुनातीति कुशसूचिलावस्तम्। कर्मण्यण् (अष्टाध्यायी ३.२.१ ) इत्यण्। एभिर्विशेषणैर्जयशीलत्वं भूतदया कर्मक्षमत्वं च द्योत्यते। सव्यादितरं दक्षिणं भुजं मे मम सभाजने संमाननिमित्ते। निमित्तात्कर्मयोगे(वा.१४९०)इति सप्तमी। इतः प्राध्वं प्रकृतानुकूलबन्धं प्रयुङ्क्ते। आनुकूल्यार्थकं प्राध्वम् इत्यमरः (अमरकोशः ३.४.४ ) । अव्ययं चैतत् ॥
Summary AI This sage, with his arms raised, courteously directs his right arm—which wears a rosary as a bracelet, scratches the deer, and cuts sharp Kusha grass—from his position towards me in greeting.
सारांश AI मृगों की खुजली मिटाने वाली और कुश तोड़ने वाली अपनी दाहिनी भुजा को ऊपर उठाकर ये उर्ध्वबाहु मुनि मेरा स्वागत कर रहे हैं।
पदच्छेदः AI
एषःएतद् (१.१) this one
अक्षमालावलयम्अक्षमालावलय (२.१) which has a rosary for a bracelet
मृगाणाम्मृग (६.३) of the deer
कण्डूयितारम्कण्डूयितृ (२.१) the scratcher
कुशसूचिलावम्कुशसूचिलाव (२.१) the cutter of sharp Kusha grass
सभाजनेसभाजन (७.१) in greeting
मेअस्मद् (६.१) my
भुजम्भुज (२.१) arm
ऊर्ध्वबाहुःऊर्ध्वबाहु (१.१) with arms raised
सव्येतरम्सव्येतर (२.१) the right one
प्राध्वम्प्राध्व courteously
इतःइतः from here
प्रयुङ्क्तेप्रयुङ्क्ते (प्र√युज् कर्तरि लट् (आत्मने.) प्र.पु. एक.) employs
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
षो ऽक्ष मा ला यं मृ गा णां
ण्डू यि ता रं कु सू चि ला वम्
भा ने मे भु मू र्ध्व बा हुः
व्ये रं प्रा ध्व मि तः प्र यु ङ्क्ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.