वाचंयमत्वात्प्रणतिं ममैष
कम्पेन किंचित्प्रतिगृह्य मूर्ध्नः ।
दृष्टिं विमानव्यवधानमुक्तां
पुनः सहस्रार्चिषि संनिधत्ते ॥

अन्वयः AI एषः वाचंयमत्वात् मम प्रणतिम् मूर्ध्नः किञ्चित् कम्पेन प्रतिगृह्य, विमान-व्यवधान-मुक्ताम् दृष्टिम् पुनः सहस्रार्चिषि संनिधत्ते।
सञ्जीविनीटीका (मल्लिनाथः) वाचंयमेति॥ एष सुतीक्ष्णः। वाचं यच्छतीति वाचंयमो मौनव्रती। वाचि यमो व्रते (अष्टाध्यायी ३.२.४० ) इति खच्प्रत्ययः। वाचंयमपुरंदरौ च (अष्टाध्यायी ६.३.६९ ) इति मुम्। तस्य भावस्तत्त्वान्मम प्रणतिं किंचिन्मूर्ध्नः कम्पेन प्रतिगृह्य विमानेन व्यवधानं तोरोधानं तस्मान्मुक्ताम्। अपेतापोढमुक्तपततित- (अष्टाध्यायी २.१.३८ ) इत्यादिना पञ्चमीसमासः। दृष्टिं पुनः सहस्रार्चिषि सूर्ये संनिधत्ते । सम्यग्धत्त इत्यर्थः। अन्यथाऽकर्मकत्वप्रसङ्गात्
Summary AI Due to his vow of silence, this sage accepts my obeisance with a slight nod of his head and then again fixes his gaze, now unobstructed by the aerial car, upon the thousand-rayed sun.
सारांश AI मौन व्रत के कारण उन्होंने सिर हिलाकर मेरा प्रणाम स्वीकार किया और विमान के हटते ही अपनी दृष्टि पुनः सूर्य पर एकाग्र कर ली।
पदच्छेदः AI
वाचंयमत्वात्वाचंयमत्व (५.१) due to his vow of silence
प्रणतिम्प्रणति (२.१) obeisance
ममअस्मद् (६.१) my
एषःएतद् (१.१) this one
कम्पेनकम्प (३.१) with a nod
किञ्चित्किञ्चित् slightly
प्रतिगृह्यप्रतिगृह्य (प्रति√ग्रह्+ल्यप्) having accepted
मूर्ध्नःमूर्धन् (३.१) with his head
दृष्टिम्दृष्टि (२.१) gaze
विमानव्यवधानमुक्ताम्विमानव्यवधानमुक्त (२.१) freed from the obstruction of the aerial car
पुनःपुनर् again
सहस्रार्चिषिसहस्रार्चिस् (७.१) on the sun
संनिधत्तेसंनिधत्ते (सं+नि√धा कर्तरि लट् (आत्मने.) प्र.पु. एक.) fixes
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
वा चं त्वा त्प्र तिं मै
म्पे किं चि त्प्र ति गृ ह्य मू र्ध्नः
दृ ष्टिं वि मा व्य धा मु क्तां
पु नः स्रा र्चि षि सं नि त्ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.