अयं सुजातोऽनुगिरं तमालः
प्रवालमादाय सुगन्धि यस्य ।
यवाङ्कुरापाण्डुकपोलशोभी
मयावतंसः परिकल्पितस्ते ॥

अन्वयः AI अनुगिरम् सुजातः अयम् सः तमालः (अस्ति), यस्य सुगन्धि प्रवालम् आदाय मया यव-अङ्कुर-आपाण्डु-कपोल-शोभी अवतंसः ते परिकल्पितः।
सञ्जीविनीटीका (मल्लिनाथः) अयमिति॥ गिरेः समीपेऽनुगिरम्। गिरेश्च सेनकस्य (अष्टाध्यायी ५.४.११२ ) इति समासान्तषअटच्प्रत्ययः। सुजातः स तमालोऽयं दृश्यते। यस्य तमालस्य। शोभनो ग्धो यस्य तत्सुगन्धि। गन्धस्य- (अष्टाध्यायी ५.४.१३५ ) इत्यादिनेकारः समासान्तः। प्रवालं पल्लवमादाय मया ते यवाङ्कुरवदापाण्डौ कपोले शोमीशोभते यः सोऽवतंसः परिकल्पितः ॥
Summary AI Here on the mountain is that well-grown Tamala tree, from which I took a fragrant sprout and fashioned an ear-ornament for you, which adorned your cheeks that were as pale as barley sprouts.
सारांश AI पर्वत के निकट यह वही तमाल वृक्ष है जिसके सुगंधित पत्तों से मैंने तुम्हारे पीले कपोलों के लिए कान का आभूषण बनाया था।
पदच्छेदः AI
अयम्इदम् (१.१) this
सुजातःसुजात (सु√जन्+क्त, १.१) well-grown
अनुगिरम्अनुगिरम् on the mountain
तमालःतमाल (१.१) Tamala tree
प्रवालम्प्रवाल (२.१) sprout
आदायआदाय (आ√दा+ल्यप्) having taken
सुगन्धिसुगन्धि (२.१) fragrant
यस्ययद् (६.१) of which
यवाङ्कुरापाण्डुकपोलशोभीयवअङ्कुरआपाण्डुकपोलशोभिन् (१.१) adorning your cheeks pale like barley sprouts
मयाअस्मद् (३.१) by me
अवतंसःअवतंस (१.१) ear-ornament
परिकल्पितःपरिकल्पित (परि√कॢप्+क्त, १.१) was fashioned
तेयुष्मद् (६.१) for you
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११
यं सु जा तो ऽनु गि रं मा लः
प्र वा मा दा सु न्धि स्य
वा ङ्कु रा पा ण्डु पो शो भी
या तं सः रि ल्पि स्ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.