Loading data... On slow networks this could take a few minutes.
100%

तां तामवस्थां प्रतिपद्यमानं
स्थितं दश व्याप्य दिशो महिम्ना ।
विष्णोरिवास्यानवधारणीय-
मीदृक्तया रूपमियत्तया वा ॥

अन्वयः AI ताम् ताम् अवस्थाम् प्रतिपद्यमानम्, महिम्ना दश दिशः व्याप्य स्थितम्, अस्य रूपम् विष्णोः इव ईदृक्तया वा इयत्तया अनवधारणीयम् (अस्ति) ।
सञ्जीविनीटीका (मल्लिनाथः) तां तामिति॥ तां तामनेकाम्। नित्यवीप्सयोः (अष्टाध्यायी ८.१.४ ) इति वीप्सया द्विरुक्तिः। अवस्थामक्षोभाद्यवस्थाम्। विष्णुपक्षे, -सत्त्वाद्यवस्थाम्। प्रतिपद्यमानं भजमानं महिम्ना दश दिशो व्याप्य स्थितं विष्णोरिवास्य रत्नाकरस्य रूपं स्वरूपमुक्तरीत्या बहुप्रकारत्वाद्व्यापकत्वाञ्चेदृक्तया, इयत्तया वा प्रकारतः परिमाणतश्चानवधारणीयं दुर्निरूपम् ॥
Summary AI "Assuming various states and pervading the ten directions with its greatness, its form, like that of Vishnu, is incomprehensible either in terms of its essential nature or its vast extent."
सारांश AI विभिन्न अवस्थाओं को प्राप्त और दसों दिशाओं में व्याप्त इस समुद्र का स्वरूप और विस्तार भगवान विष्णु की भाँति ही तर्क और बुद्धि से परे है।
पदच्छेदः AI
ताम्तद् (२.१) this
ताम्तद् (२.१) and that
अवस्थाम्अवस्था (२.१) state
प्रतिपद्यमानम्प्रतिपद्यमान (प्रति√पद्+शानच्, २.१) assuming
स्थितम्स्थित (√स्था+क्त, २.१) existing
दशदशन् (२.३) ten
व्याप्यव्याप्य (वि√आप्+ल्यप्) having pervaded
दिशःदिश् (२.३) directions
महिम्नामहिम्न् (३.१) by its greatness
विष्णोःविष्णु (६.१) of Vishnu
इवइव like
अस्यइदम् (६.१) its
अनवधारणीयम्अनवधारणीय (अव√धृ+अनीयर्, १.१) is incomprehensible
ईदृक्तयाईदृक्तया (३.१) in terms of its nature
रूपम्रूप (१.१) form
इयत्तयाइयत्तया (३.१) in terms of its extent
वावा or
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
तां ता स्थां प्र ति द्य मा नं
स्थि तं व्या प्य दि शो हि म्ना
वि ष्णो रि वा स्या धा णी
मी दृ क्त या रू मि त्त या वा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.