त्वया पुरस्तादुपयाचितो यः
सोऽयं वटः श्याम इति प्रतीतः ।
राशिर्मणीनामिव गारुडानां
सपद्मरागः फलितो विभाति ॥

अन्वयः AI यः पुरस्तात् त्वया उपयाचितः, सः अयम् श्यामः इति प्रतीतः वटः, फलितः (सन्) स-पद्मरागः गारुडानाम् मणीनाम् राशिः इव विभाति।
सञ्जीविनीटीका (मल्लिनाथः) त्वयेति॥ त्वया पुरस्तात् पूर्वं य उपयाचितः प्रार्थितः। तथा च रामायणे-न्यग्रोधं तमुपस्थाय वैदेह्री वाक्यमब्रवीत्। नमस्तेऽस्तुं महावृक्ष! पालयेन्मे व्रतं पतिः॥ इति। श्याम इति प्रतीतः स वटोऽयं फलितः सन्। सपद्मरागो गारुडानां मणीनां मरकतानां राशिरिव। विभाति ॥
Summary AI This is that banyan tree known as Shyama, from which you once requested a boon. Now, laden with fruit, it shines like a heap of emeralds mixed with rubies.
सारांश AI हे सीते! यह वही प्रसिद्ध श्याम वटवृक्ष है जिसकी तुमने प्रार्थना की थी। फलों से लदा यह वृक्ष पन्नों की राशि पर जड़े माणिक्यों के समान सुशोभित है।
पदच्छेदः AI
त्वयायुष्मद् (३.१) by you
पुरस्तात्पुरस्तात् before
उपयाचितःउपयाचित (उप√याच्+क्त, १.१) was requested
यःयद् (१.१) which
सःतद् (१.१) that
अयम्इदम् (१.१) this
वटःवट (१.१) banyan tree
श्यामःश्याम (१.१) Shyama
इतिइति thus
प्रतीतःप्रतीत (प्रति√इ+क्त, १.१) known as
राशिःराशि (१.१) a heap
मणीनाम्मणि (६.३) of gems
इवइव like
गारुडानाम्गारुड (६.३) of emeralds
सपद्मरागःपद्मराग (१.१) mixed with rubies
फलितःफलित (√फल्+क्त, १.१) bearing fruit
विभातिविभाति (वि√भा कर्तरि लट् (परस्मै.) प्र.पु. एक.) shines
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
त्व या पु स्ता दु या चि तो यः
सो ऽयं टः श्या ति प्र ती तः
रा शि र्म णी ना मि गा रु डा नां
द्म रा गः लि तो वि भा ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.