स कीचकैर्मारुतपूर्णरन्ध्रैः
कूजद्भिरापादितवंशकृत्यम् ।
शुश्राव कुञ्जेषु यशः स्वमुच्चै-
रुद्गीयमानं वनदेवताभिः ॥

अन्वयः AI सः कुञ्जेषु मारुतपूर्णरन्ध्रैः कूजद्भिः कीचकैः आपादितवंशकृत्यम् (यथा स्यात् तथा) वनदेवताभिः उच्चैः उद्गीयमानम् स्वम् यशः शुश्राव।
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ स दिलीपो मारुतपूर्णरन्ध्रैः। अत एव कूजद्भिः स्वनद्भिः कीचकैर्वेणुविशेषैः। वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः इत्यमरः (अमरकोशः २.४.१६१ ) । वंशः सुषिरवाद्यावशेषः। वंशादिकं तु सुषिरम् इत्यमरः (अमरकोशः २.४.१६१ ) । आपादितं संपादितं वंशस्य कृत्यं कार्यं यस्मिन्कर्मणि तत्तथा। कुञ्जेषु लतागृहेषु। निकुञ्जकुञ्जौ वा क्लिबे लतादिपिहितोदरे इत्यमरः (अमरकोशः २.४.१६१ ) । वनदेवताभिरुद्गीयमानमुञ्चैर्गीयमानं स्वं यशः शुश्राव श्रुतवान्॥
Summary AI In the forest groves, he heard his own fame being sung aloud by the forest deities. The music was produced by the humming bamboos, whose holes were filled with wind, thus performing the function of flutes.
सारांश AI हवा से भरे हुए छिद्रों वाले बाँसों के झुरमुटों से निकलने वाली मधुर ध्वनि ऐसी प्रतीत हो रही थी, मानो वन-देवता ऊँचे स्वर में राजा के यश का गान कर रहे हों।
पदच्छेदः AI
सःतद् (१.१) He
कीचकैःकीचक (३.३) by the bamboos
मारुतपूर्णरन्ध्रैःमारुतपूर्णरन्ध्र (३.३) whose holes were filled with wind
कूजद्भिःकूजत् (√कूज्+शतृ, ३.३) humming
आपादितवंशकृत्यम्आपादितवंशकृत्य (२.१) performing the function of a flute
शुश्रावशुश्राव (√श्रु कर्तरि लिट् (परस्मै.) प्र.पु. एक.) heard
कुञ्जेषुकुञ्ज (७.३) in the groves
यशःयशस् (२.१) fame
स्वम्स्व (२.१) his own
उच्चैःउच्चैस् aloud
उद्गीयमानम्उद्गीयमान (उत्√गै+यक्+शानच्, २.१) being sung
वनदेवताभिःवनदेवता (३.३) by the forest deities
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
की कै र्मा रु पू र्ण न्ध्रैः
कू द्भि रा पा दि वं कृ त्यम्
शु श्रा कु ञ्जे षु शः स्व मु च्चै
रु द्गी मा नं दे ता भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.