इत्थं व्रतं धारयतः प्रजार्थं
समं महिण्या महनीयकीर्तेः ।
सप्त व्यतीयुस्त्त्रिगुणानि तस्य
दिनानि दीनोद्धरणोचितस्य ॥

अन्वयः AI इत्थम् प्रजार्थम् महिष्या समम् व्रतम् धारयतः, महनीयकीर्तेः, दीनोद्धरणोचितस्य तस्य त्रिगुणानि सप्त दिनानि व्यतीयुः।
सञ्जीविनीटीका (मल्लिनाथः) इत्थमिति॥ इत्थमनेन प्रकारेण प्रजार्थं संतानाय महिष्या सममभिषिक्तपत्न्या सह। कृताभिषेका महिषी इत्यमरः (अमरकोशः २.६.५ ) । व्रतं धारयतः। महनीया पूज्या कीर्तिर्यस्य तस्य दीनानामुद्धरणं दैन्दविमोचनम्। तत्रोचितस्य परिचितस्य तस्य नृपस्य। त्रयो गुणा आवृत्तयो येषां तानि त्रिगुणानि त्रिरावृत्तानि सप्त दिनान्येकविंशतिदिनानि व्यतीयुः ॥
Summary AI In this manner, three times seven (twenty-one) days passed for him—a man of praiseworthy fame, accustomed to uplifting the distressed—as he, along with his queen, observed this vow for the sake of progeny.
सारांश AI प्रजा की रक्षा करने वाले यशस्वी राजा दिलीप ने संतान प्राप्ति के लिए अपनी रानी के साथ इस प्रकार व्रत का पालन करते हुए इक्कीस दिन व्यतीत किए।
पदच्छेदः AI
इत्थम्इत्थम् In this manner
व्रतम्व्रत (२.१) vow
धारयतःधारयत् (√धृ+णिच्+शतृ, ६.१) of him observing
प्रजार्थम्प्रजाअर्थम् for the sake of progeny
समम्समम् with
महिष्यामहिषी (३.१) the queen
महनीयकीर्तेःमहनीयकीर्ति (६.१) of him of praiseworthy fame
सप्तसप्तन् (१.३) seven
व्यतीयुःव्यतीयुः (वि+अति√इ कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) passed by
त्रिगुणानित्रिगुण (१.३) multiplied by three
तस्यतद् (६.१) his
दिनानिदिन (१.३) days
दीनोद्धरणोचितस्यदीनउद्धरणउचित (६.१) of him accustomed to uplifting the distressed
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
त्थं व्र तं धा तः प्र जा र्थं
मं हि ण्या नी की र्तेः
प्त व्य ती यु स्त्त्रि गु णा नि स्य
दि ना नि दी नो द्ध णो चि स्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.