Loading data... On slow networks this could take a few minutes.
100%

अमुं पुरः पश्यसि देवदारुं
पुत्रीकृतोऽसौ वृषभध्वजेन ।
यो हेमकुम्भस्तननिःसृतानां
स्कन्दस्य मातुः पयसां रसज्ञः ॥

अन्वयः AI पुरः अमुम् देवदारुम् पश्यसि। असौ वृषभ-ध्वजेन पुत्रीकृतः। यः स्कन्दस्य मातुः हेम-कुम्भ-स्तन-निःसृतानाम् पयसाम् रस-ज्ञः अस्ति।
सञ्जीविनीटीका (मल्लिनाथः) अमुमिति॥ पुरोऽग्रतोऽग्रतोऽमुं देवदारुं पश्यसि। इति काकुः। असौ देवदारुः। वृषभो ध्वजे यस्य स तेन शिवेन पुत्रीकृतः पुत्रत्वेन स्वीकृतः। अभूततद्भावे च्विः। यो देवदारुः स्कन्दस्य मातुर्गौर्या हेम्नः कुम्भ एव स्तनः तस्मान्निःसृतानां पयसामम्बूनां रसज्ञः स्वादज्ञः। स्कन्दपक्षे, -हेमकुम्भ इव स्तन इति विग्रहः। पयसां क्षीराणाम्। पयः क्षीरं पयोऽम्बु च इत्यमरः। स्कन्दसमानप्रेमास्पदमिति भावः ॥
Summary AI "You see this Deodar tree before you. It was made a son by Shiva. This tree knows the taste of the water that flowed from the golden-pitcher-like breasts of Parvati, the mother of Skanda."
सारांश AI सामने खड़ा यह देवदारु वृक्ष शिव द्वारा पुत्रवत माना गया है। पार्वती ने इसे स्वर्ण कलशों के जल से वैसे ही सींचा है, जैसे कार्तिकेय का पालन किया हो।
पदच्छेदः AI
अमुम्अदस् (२.१) this
पुरःपुरस् in front
पश्यसिपश्यसि (√दृश् कर्तरि लट् (परस्मै.) म.पु. एक.) you see
देवदारुम्देवदारु (२.१) Deodar tree
पुत्रीकृतःपुत्रीकृत (√कृ+च्वि+क्त, १.१) is made a son
असौअदस् (१.१) this one
वृषभ-ध्वजेनवृषभध्वज (३.१) by the one with the bull banner (Shiva)
यःयद् (१.१) who
हेम-कुम्भ-स्तन-निःसृतानाम्हेमकुम्भस्तननिःसृत (६.३) of (waters) that have flowed from the golden-pitcher-like breasts
स्कन्दस्यस्कन्द (६.१) of Skanda
मातुःमातृ (६.१) of the mother (Parvati)
पयसाम्पयस् (६.३) of the waters
रस-ज्ञःरसज्ञ (१.१) knower of the taste
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
मुं पु रः श्य सि दे दा रुं
पु त्री कृ तो ऽसौ वृ ध्व जे
यो हे कु म्भ स्त निः सृ ता नां
स्क न्द स्य मा तुः सां ज्ञः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.