स त्वं निवर्तस्व विहाय लज्जां
गुरोर्भवान्दर्शितशिष्यभक्तिः ।
शस्त्त्रेण रक्ष्यं यदशक्यरक्षं
न तद्यशः शस्त्त्रभृतां क्षिणोति ॥

अन्वयः AI सः त्वम् लज्जाम् विहाय निवर्तस्व। भवान् गुरोः दर्शित-शिष्य-भक्तिः अस्ति। यत् शस्त्रेण रक्ष्यम् अशक्य-रक्षम् भवति, तत् शस्त्र-भृताम् यशः न क्षिणोति।
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ स एवमुपायशून्यस्त्वं लज्जां विहाय निवर्तस्व। भवांस्त्वं गुरोर्दर्शिता प्रकाशिता शिष्यस्य कर्तव्या भक्तिर्येन स तथोक्तोऽस्ति। ननु गुरुधनं विनाश्य कथं तत्समीपं गच्छेयमत आह-शस्त्त्रेणेति। यद्रक्ष्यं धनं शस्त्त्रेणायुधेन। शस्त्त्रमायुधलोहयोः इत्यमरः। अशक्या रक्षा यस्य तदशक्यरक्षम्; रक्षितुमशक्यमित्यर्थः। तद्रक्ष्यं नष्टमपि शस्त्रभृतां यशो न क्षिणोति न हिनस्ति। अशक्यार्थेष्वप्रतिविधानं न दोषायेति भावः ॥
Summary AI "Therefore, you should turn back, abandoning shame. You have already shown your devotion as a disciple to your guru. When something that ought to be protected by a weapon is impossible to protect, failing to do so does not diminish the fame of a warrior."
सारांश AI अतः आप लज्जा छोड़कर लौट जाएँ। आपने गुरु के प्रति अपनी अटूट भक्ति दिखा दी है। यदि कोई वस्तु शस्त्र से रक्षित नहीं की जा सकती, तो उससे योद्धा के यश की हानि नहीं होती।
पदच्छेदः AI
सःतद् (१.१) that (you)
त्वम्युष्मद् (१.१) you
निवर्तस्वनिवर्तस्व (नि√वृत् कर्तरि लोट् (आत्मने.) म.पु. एक.) turn back
विहायविहाय (वि√हा+ल्यप्) having abandoned
लज्जाम्लज्जा (२.१) shame
गुरोःगुरु (६.१) towards the guru
भवान्भवत् (१.१) you (respectful)
दर्शित-शिष्य-भक्तिःदर्शितशिष्यभक्ति (१.१) one who has shown the devotion of a disciple
शस्त्रेणशस्त्र (३.१) by a weapon
रक्ष्यम्रक्ष्य (√रक्ष्+यत्, १.१) what is to be protected
यत्यद् (१.१) that which
अशक्य-रक्षम्अशक्यरक्ष (१.१) is impossible to protect
not
तत्तद् (१.१) that
यशःयशस् (२.१) the fame
शस्त्र-भृताम्शस्त्रभृत् (६.३) of the weapon-bearers
क्षिणोतिक्षिणोति (√क्षि कर्तरि लट् (परस्मै.) प्र.पु. एक.) diminishes
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
त्वं नि र्त स्व वि हा ज्जां
गु रो र्भ वा न्द र्शि शि ष्य क्तिः
स्त्त्रे क्ष्यं क्य क्षं
द्य शः स्त्त्र भृ तां क्षि णो ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.