Loading data... On slow networks this could take a few minutes.
100%

संरुद्धचेष्टस्य मृगेन्द्र कामं
हास्यं वचस्तद्यदहं विवक्षुः ।
अन्तर्गतं प्राणभृतां हि वेद
सर्वं भवान्भावमतोऽभिधास्ये ॥

अन्वयः AI मृगेन्द्र! संरुद्ध-चेष्टस्य मम यत् वचः अहम् विवक्षुः, तत् कामम् हास्यम्। हि भवान् प्राण-भृताम् सर्वम् अन्तः-गतम् भावम् वेद। अतः अहम् अभिधास्ये।
सञ्जीविनीटीका (मल्लिनाथः) संरुद्धेति॥ हे मृगेन्द्र! संरुद्धचेष्टस्य प्रतिबद्धव्यापारस्य मम तद्वचोवाक्यं कामं हास्यं परिहसनीयम्। यद्वचः स त्वं मदीयेन(२।४५) इत्यादिकमहं विवक्षुर्वक्तुमिच्छुरस्मि। तर्हि तूष्णीं स्थीयतामित्याशङ्क्येश्वरकिंकरत्वात्सर्वज्ञं त्वां प्रति न हास्यमित्याह-अन्तरिति। हि यतो भवान् प्राणभृतामन्तर्गतं हृद्गतं वाग्वृत्त्या बहिरप्रकाशितमेव सर्वं भावं वेद वेत्ति। विदो लटो वा (अष्टाध्यायी ३.४.८३ ) इति णलादेशः। अतोऽभिधास्ये वक्ष्यामि। वच इति प्रकृतं कर्म संबध्यते। अन्ये त्वीदृग्वचनमाकर्ण्यासंभावितार्थमेतदित्युपहसन्ति। अतस्तु मौनमेव भूषणम्। त्वं तु वाङ्मनसयोरेकविध एवायमिति जानासि। अतोऽभिधास्ये यद्वचोऽहं विवक्षुरित्यर्थः॥
Summary AI "O king of beasts! The words I wish to speak may be laughable, coming from one whose actions are paralyzed. However, since you know all the innermost thoughts of living beings, I will speak."
सारांश AI हे मृगेंद्र! चेष्टाहीन मेरी बातें भले ही उपहासपूर्ण लगें, किंतु आप प्राणियों के अंतर्मन के भावों को जानते हैं, इसलिए मैं आपसे कुछ कहना चाहता हूँ।
पदच्छेदः AI
संरुद्ध-चेष्टस्यसंरुद्धचेष्ट (६.१) of one whose actions are blocked
मृगेन्द्रमृगेन्द्र (८.१) O king of beasts!
कामम्कामम् indeed
हास्यम्हास्य (१.१) laughable
वचःवचस् (१.१) speech
तत्तद् (१.१) that
यत्यद् (१.१) which
अहम्अस्मद् (१.१) I
विवक्षुःविवक्षु (√वच्+सन्+उ, १.१) am desirous of speaking
अन्तः-गतम्अन्तर्गत (२.१) internal
प्राण-भृताम्प्राणभृत् (६.३) of living beings
हिहि for
वेदवेद (√विद् कर्तरि लट् (परस्मै.) प्र.पु. एक.) knows
सर्वम्सर्व (२.१) all
भवान्भवत् (१.१) you
भावम्भाव (२.१) intention
अतःअतस् therefore
अभिधास्येअभिधास्ये (अभि√धा कर्तरि लृट् (आत्मने.) उ.पु. एक.) I will speak
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
सं रु द्ध चे ष्ट स्य मृ गे न्द्र का मं
हा स्यं स्त द्य हं वि क्षुः
न्त र्ग तं प्रा भृ तां हि वे
र्वं वा न्भा तो ऽभि धा स्ये
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.