एतावदुक्त्वा विरते मृगेन्द्रे
प्रतिस्वनेनास्य गुहागतेन ।
शिलोच्चयोऽपि क्षितिपालमुच्चैः
प्रीत्या तमेवार्थमभाषतेव ॥

अन्वयः AI मृगेन्द्रे एतावत् उक्त्वा विरते (सति), अस्य गुहागतेन प्रतिस्वनेन शिलोच्चयः अपि प्रीत्या तम् एव अर्थम् उच्चैः क्षितिपालम् अभाषत इव।
सञ्जीविनीटीका (मल्लिनाथः) एतावदिति॥ मृगेन्द्र एतावदुक्त्वा विरते सति गुह्नागतेनास्य सिंहस्य प्रतिस्वनेन शिलोच्चयः शैलोऽपि प्रीत्या तमेवार्थं क्षितिपालमुञ्चैरभाषतेव। इत्युत्प्रेक्षा। भाषिरयं ब्रुविसमानार्थत्वाद्दिकर्मकः। ब्रुविस्तु द्विकर्मकेषु पठितः। तदुक्तम्-दुहियाचिरुधिप्रच्छिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ। ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना ॥ इति ॥
Summary AI When the king of beasts fell silent after speaking thus, the mountain, through the echo of his voice from the caves, seemed to lovingly and loudly repeat that very same message to the king.
सारांश AI सिंह के इतना कहकर चुप होने पर, गुफाओं से गूंजती उसकी प्रतिध्वनि के माध्यम से पर्वत भी राजा से वही बात पुनः कहता हुआ सा प्रतीत हुआ।
पदच्छेदः AI
एतावत्एतावत् (२.१) this much
उक्त्वाउक्त्वा (√वच्+क्त्वा) having said
विरतेविरत (वि√रम्+क्त, ७.१) having ceased
मृगेन्द्रेमृगेन्द्र (७.१) the king of beasts
प्रतिस्वनेनप्रतिस्वन (३.१) by the echo
अस्यइदम् (६.१) of his
गुहागतेनगुहागत (३.१) coming from the cave
शिलोच्चयःशिलउच्चय (१.१) the mountain
अपिअपि also
क्षितिपालम्क्षितिपाल (२.१) to the king
उच्चैःउच्चैस् loudly
प्रीत्याप्रीति (३.१) with affection
तम्तद् (२.१) that
एवएव very
अर्थम्अर्थ (२.१) meaning
अभाषतअभाषत (आ√भाष् कर्तरि लङ् (आत्मने.) प्र.पु. एक.) spoke
इवइव as it were
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
ता दु क्त्वा वि ते मृ गे न्द्रे
प्र ति स्व ने ना स्य गु हा ते
शि लो च्च यो ऽपि क्षि ति पा मु च्चैः
प्री त्या मे वा र्थ भा ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.