निशम्य देवानुचरस्य वाचं
मनुष्यदेवः पुनरप्युवाच ।
धेन्वा तदध्यासितकातराक्ष्या
निरीक्ष्यमाणः सुतरां दयालुः ॥

अन्वयः AI देवानुचरस्य वाचम् निशम्य, तदध्यासितकातराक्ष्या धेन्वा निरीक्ष्यमाणः, सुतराम् दयालुः मनुष्यदेवः पुनः अपि उवाच।
सञ्जीविनीटीका (मल्लिनाथः) निशम्येति॥ देवानुचरस्येश्वरकिंकरस्य सिंहस्य वाचं निशम्य, मनुष्यदेवो राजा पुनरप्युवाच। किंभूतः सन्? तेन सिंहेन यदध्यासितं व्याक्रमणम्। नपुंसके भावे क्तः। तेन कातरे अक्षिणी यस्यास्तया। बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् (अष्टाध्यायी ५.४.११३ ) इति षच्। षिद्गौरादिभ्यश्च (अष्टाध्यायी ४.१.४१ ) इति ङीष्। किंवा वक्ष्यति इति मीत्यैवं स्थितयेत्यर्थः। धेन्वा निरीक्ष्यमाणः। अत एव सुतरां दयालुः सन्। सुतराम् इत्यत्र द्विवचनविभज्य- (अष्टाध्यायी ४.१.४१ ) इत्यादिना सुशब्दात्तरप्। किमेत्तिङव्यय- (अष्टाध्यायी ५.४.११ ) इत्यादिनाम्प्रत्ययः। तद्धितश्चासर्वविभक्तिः (अष्टाध्यायी १.१.३८ ) इत्यव्ययसंज्ञा ॥
Summary AI Hearing the words of the god's attendant, the king—a god among men—became exceedingly compassionate as he was being watched by the cow, whose frightened eyes were fixed upon him, and spoke again.
सारांश AI शिव के अनुचर की बात सुनकर और भयभीत नेत्रों वाली गौ द्वारा देखे जाते हुए, परम दयालु राजा दिलीप ने पुनः सिंह से कहा।
पदच्छेदः AI
निशम्यनिशम्य (नि√शम्+ल्यप्) Having heard
देवानुचरस्यदेवअनुचर (६.१) of the god's attendant
वाचम्वाच् (२.१) the words
मनुष्यदेवःमनुष्यदेव (१.१) the god among men (the king)
पुनःपुनर् again
अपिअपि also
उवाचउवाच (√वच् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) spoke
धेन्वाधेनु (३.१) by the cow
तदध्यासितकातराक्ष्यातत्अध्यासितकातरअक्षि (३.१) whose frightened eyes were fixed on him
निरीक्ष्यमाणःनिरीक्ष्यमाण (निर्√ईक्ष्+शानच्, १.१) being watched
सुतराम्सुतराम् exceedingly
दयालुःदयालु (१.१) compassionate
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
नि म्य दे वा नु स्य वा चं
नु ष्य दे वः पु प्यु वा
धे न्वा ध्या सि का रा क्ष्या
नि री क्ष्य मा णः सु रां या लुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.