सेयं स्वदेहार्पणनिष्क्रयेण
न्याय्या मया मोचयितुं भवत्तः ।
न पारणा स्याद्विहता तवैवं
भवेदलुप्तश्च मुनेः क्रियार्थः ॥

अन्वयः AI सा इयम् (गौः) मया स्वदेहार्पणनिष्क्रयेण भवतः मोचयितुम् न्याय्या। एवम् तव पारणा विहता न स्यात्, मुनेः क्रियार्थः च अलुप्तः भवेत्।
सञ्जीविनीटीका (मल्लिनाथः) सेयमिति॥ सेयं गौर्मया। निष्क्रीयते प्रत्याह्रियतेऽनेन परगृहीतमिति निष्क्रयः प्रतिशीर्षकम्। एरच् (अष्टाध्यायी ३.३.५६ ) इत्यच्प्रत्ययः। स्वदेहार्पणमेव निष्क्रयस्तेन भवत्तस्त्वत्तः। पञ्चम्यास्तसिल्। मोचयितुं न्याय्या न्यायादनपेता। युक्तेत्यर्थः। धर्मपथ्यर्थं- (अष्टाध्यायी ४.४.९२ ) इत्यादिना यत्प्रत्ययः। एवं सति तव पारणा भोजनं विहता न स्यात्। मुनेः क्रिया होमादिः स एवार्थः प्रयोजनम्। स चालुप्तो भवेत्। स्वप्राणब्ययेनापि स्वामिगुरुधनं संरक्ष्यमिति भावः॥
Summary AI "It is right for me to free this cow from you by offering my own body as ransom. In this way, your meal will not be obstructed, and the sage's purpose for the ritual will also remain unimpaired."
सारांश AI अपने शरीर के अर्पण द्वारा इस गाय को आपसे मुक्त कराना ही न्यायसंगत है। इससे आपका भोजन भी सिद्ध होगा और मुनि के यज्ञ कार्यों में भी बाधा नहीं आएगी।
पदच्छेदः AI
सातद् (१.१) She
इयम्इदम् (१.१) this one
स्वदेहार्पणनिष्क्रयेणस्वदेहअर्पणनिष्क्रय (३.१) by the ransom of offering my own body
न्याय्यान्याय्य (१.१) is proper
मयाअस्मद् (३.१) by me
मोचयितुम्मोचयितुम् (√मुच्+णिच्+तुमुन्) to be released
भवतःभवत् (५.१) from you
not
पारणापारणा (१.१) breaking of a fast (meal)
स्यात्स्यात् (√अस् कर्तरि विधिलिङ् (परस्मै.) प्र.पु. एक.) would be
विहताविहत (वि√हन्+क्त, १.१) obstructed
तवयुष्मद् (६.१) your
एवम्एवम् Thus
भवेत्भवेत् (√भू कर्तरि विधिलिङ् (परस्मै.) प्र.पु. एक.) would be
अलुप्तःलुप्त (१.१) unimpaired
and
मुनेःमुनि (६.१) of the sage
क्रियार्थःक्रियाअर्थ (१.१) the purpose of the ritual
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
से यं स्व दे हा र्प नि ष्क्र ये
न्या य्या या मो यि तुं त्तः
पा णा स्या द्वि ता वै वं
वे लु प्त श्च मु नेः क्रि या र्थः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.