Loading data... On slow networks this could take a few minutes.
100%

भवानपीदं परवानवैति
महान्हि यत्नस्तव देवदारौ ।
स्थातुं नियोक्तुर्न हि शक्यमग्रे
विनाश्य रक्ष्यं स्वयमक्षतेन ॥

अन्वयः AI भवान् अपि परवान् (अस्ति), इदम् अवैति। हि तव देवदारौ महान् यत्नः (अस्ति)। नियोक्तुः अग्रे रक्ष्यम् विनाश्य स्वयम् अक्षतेन स्थातुम् हि न शक्यम्।
सञ्जीविनीटीका (मल्लिनाथः) भवानिति॥ परवान् स्वामिपरतन्त्त्रो भवानपि। परतन्त्त्रः पराधीनः परवान्नाथवानपि इत्यमरः (अमरकोशः ३.३.२७२ ) । इदं वक्ष्यमाणमवैति। भवतानुभूयत एवेत्यर्थः। शेषे प्रथमः (अष्टाध्यायी १.४.१०८ ) इति प्रथमपुरुषः। किमित्यत आह-हि यस्माद्धेतोः, हि हेताववधारणे इत्यमरः (अमरकोशः ३.३.२७२ ) । तव देवदारौ विषये महान् यत्नः। महता यत्नेन रक्ष्यत इत्यर्थः। इदंशब्दोक्तमर्थं दर्शयति-स्थातुमिति॥ रक्ष्यं वस्तु विनाश्य विनाशं गमयित्वा स्वयमक्षतेनाव्रणेन। नुयुक्तेनेति शेषः। नियोक्तुः स्वामि नोऽग्रे स्थातुं शक्यं न हि ॥
Summary AI "You too are bound by duty and understand this, for your effort in guarding the Deodar tree is great. Indeed, it is impossible to stand unharmed before one's master after having allowed the object of protection to be destroyed."
सारांश AI आप भी पराधीन होने के कारण यह जानते हैं कि रक्षण योग्य वस्तु को नष्ट करवाकर स्वयं सुरक्षित रहना स्वामी के समक्ष अत्यंत लज्जास्पद है।
पदच्छेदः AI
भवान्भवत् (१.१) You
अपिअपि also
इदम्इदम् (२.१) this
परवान्परवत् (१.१) are bound by duty
अवैतिअवैति (अव√इ कर्तरि लट् (परस्मै.) प्र.पु. एक.) know
महान्महत् (१.१) great
हिहि for
यत्नःयत्न (१.१) is the effort
तवयुष्मद् (६.१) your
देवदारौदेवदारु (७.१) in protecting the Deodar tree
स्थातुम्स्थातुम् (√स्था+तुमुन्) to stand
नियोक्तुःनियोक्तृ (६.१) of one's master
not
हिहि indeed
शक्यम्शक्य (१.१) is it possible
अग्रेअग्र (७.१) before
विनाश्यविनाश्य (वि√नश्+णिच्+ल्यप्) having destroyed
रक्ष्यम्रक्ष्य (२.१) what is to be protected
स्वयम्स्वयम् oneself
अक्षतेनअक्षत (३.१) unharmed
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
वा पी दं वा वै ति
हा न्हि त्न स्त दे दा रौ
स्था तुं नि यो क्तु र्न हि क्य ग्रे
वि ना श्य क्ष्यं स्व क्ष ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.