Loading data... On slow networks this could take a few minutes.
100%

अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः
सुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम् ।
नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी
गुरुभिरभिनिविष्टं लोकपालानुभावैः ॥

अन्वयः AI अथ राज्ञी, द्यौः अत्रेः नयन-समुत्थम् ज्योतिः इव, सुरसरित् ऐशम् वह्नि-निष्ठ्यूतम् तेजः इव, नरपति-कुल-भूत्यै लोकपाल-अनुभावैः गुरुभिः अभिनिविष्टम् गर्भम् आधत्त ।
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथ द्यौः सुरवर्त्म। द्यौः स्वर्गसुरवर्त्मनोः इति विश्वः। अत्रेर्महर्षेर्नयनयोः समुत्थमुत्पन्नं नयनसमुत्थम्। आतश्चोपसर्गे (अष्टाध्यायी ३.१.१३६ ) इति कप्रत्ययः। ज्योतिरिव। चन्द्रमिवेत्यर्थः। ऋक्षेशः स्यादत्रिनेत्रप्रसूतः इति हलायुधः। चन्द्रस्यात्रिनेत्रोद्भूतत्वमुक्तं हरिवंशे-नेत्राभ्यां वारि सुस्नाव दशधा द्योतयद्दिशः। तद्गर्भविधिना हृष्टा दिशो देव्यो दधुस्तदा। समेत्य धारयामासुर्न चैताः समशक्नुवन्। स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः। पपात पावयँल्लोकाञ्छीतांशुः सुरभावनः॥ इति। सुरसरिद्गङ्गा वह्निना निष्ठ्यूतं विक्षिप्तम्। च्छ्वोः शूडनुनासिके च (अष्टाध्यायी ६.४.१९ ) इत्यनेन निपूर्वात्ष्ठीवतेर्वकारस्य ऊठ्। नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः इत्यमरः (अमरकोशः ३.१.८६ ) । ऐशं तेजः स्कन्दमिव। अत्र रामायणम्(बाल.३।६।१०)-ते गत्वा पर्वतं राम! कैलासं धातुमण्डितम्। अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः। देवकार्यमिदं देव समाधत्स्व हुताशन!। शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज। देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः। गर्भँ धारय वै देवि! देवतानामिदं प्रियम्। इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत्। स तस्यामहिमां दृष्ट्वा समन्तादवशीर्यत। समन्ततस्तु तां देवीमभ्यषिञ्चत पावकः। सर्वस्नोतांसि पूर्णानि गङ्गाया रघुनन्दन!॥ इति। राज्ञी सुदक्षिणा नरपतेर्दिलीपस्य कुलभूत्यै संततिलक्षणायै गुरुभिर्महद्भिर्लोकपालानामनुभावैस्तेजोभिरभिनिविष्टमनुप्रविष्टं गर्भमाधत्त। दधावित्यर्थः। अत्र मनुः(५।९६)-अष्टानां लोकपालानां वपुर्धारयते नृपः इति। अत्र आधत्त इत्यनेन स्त्रीकर्तृकधारणमात्रमुच्यते। तथा मन्त्रे च दृश्यते-यथेयं पृथिवी मह्युत्ताना गर्भमादधे। एवं त्वं गर्भमाधेहि दशमे मासि सूतवे। इत्याश्वलायनानां सीमन्तमन्त्रे स्त्रीव्यापारधारण आधानशब्दप्रयोगदर्शनादिति। मालिनीवृत्तमेतत्। तदुक्तम्-ननमयययुतेयं मालिनी भोगिलोकैः इति लक्षणात् ॥
Summary AI Then, for the prosperity of the royal dynasty, the queen conceived an embryo. It was like the sky receiving the light born from Atri's eye (the moon), or like the Ganges receiving Shiva's fiery energy cast forth from the fire. This embryo was pervaded by the great powers of the world-guardians.
सारांश AI इसके बाद, राजवंश की समृद्धि के लिए रानी सुदक्षिणा ने लोकपालों के तेज से युक्त गर्भ धारण किया, जैसे आकाश अत्रि की ज्योति को और गंगा शिव के तेज को धारण करती है।
पदच्छेदः AI
अथअथ then
नयनसमुत्थंनयनसमुत्थ (२.१) arisen from the eye
ज्योतिःज्योतिस् (२.१) the light
अत्रेःअत्रि (६.१) of Atri
इवइव like
द्यौःद्यु (१.१) the sky
सुरसरिदिवसुरसरित् (१.१)इव like the river of gods (Ganges)
तेजःतेजस् (२.१) the energy
वह्निनिष्ठ्यूतम्वह्निनिष्ठ्यूत (२.१) spat out by fire
ऐशम्ऐश (२.१) of Shiva
नरपतिकुलभूत्यैनरपतिकुलभूति (४.१) for the prosperity of the royal dynasty
गर्भम्गर्भ (२.१) an embryo
आधत्तआधत्त (आ√धा कर्तरि लङ् (आत्मने.) प्र.पु. एक.) conceived
राज्ञीराज्ञी (१.१) the queen
गुरुभिःगुरु (३.३) by the great
अभिनिविष्टंअभिनिविष्ट (अभि+नि√विश्+क्त, २.१) pervaded
लोकपालानुभावैःलोकपालअनुभाव (३.३) by the powers of the world-guardians
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
मु त्थं ज्यो ति त्रे रि द्यौः
सु रि दि ते जो ह्नि नि ष्ठ्यू मै शम्
ति कु भू त्यै र्भ मा त्त रा ज्ञी
गु रु भि भि नि वि ष्टं लो पा ला नु भा वैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.