सुखश्रवा मङ्गलतूर्यनिस्वनाः
प्रमोदनृत्यैः सह वारयोषिताम् ।
न केवलं सद्मनि मागधीपतेः
पथि व्यजृम्भन्त दिवौकसामपि ॥

अन्वयः AI वार-योषितां प्रमोद-नृत्यैः सह सुख-श्रवाः मङ्गल-तूर्य-निस्वनाः केवलं मागधी-पतेः सद्मनि न, दिव्-ओकसां पथि अपि व्यजृम्भन्त ।
सञ्जीविनीटीका (मल्लिनाथः) सुखश्रवा इति॥ सुखः सुखकरः श्रवः श्रवणं येषां ते सुखश्रवाः। श्रुतिसुखा इत्यर्थः। मङ्गलतूर्यनिस्वना मङ्गलवाद्यध्वनयो वारयोषितां वेश्यानाम्। वारस्त्त्री गणिका वेश्या रूपाजीवा इत्यमरः। प्रमोदनृत्यैर्हर्षनर्तनैः सह मागधीपतेर्दिलीपस्य सद्मनि केवलं गृह एव न व्यजृम्भन्त, किंतु द्यौरोको येषां ते दिवौकसो देवाः। पृषोदरादित्वात्साधुः, तेषां पथ्याऽऽकाशेऽपि व्यजृम्भन्त। तस्य देवांशत्वाद्देवोपकारित्वाञ्च देवदुन्दुभयोऽपि नेदुरिति भावः॥
Summary AI The pleasant sounds of auspicious musical instruments, accompanied by the joyous dances of the courtesans, resounded not only in the palace of the king of Magadha but also in the heavens, the path of the gods.
सारांश AI मधुर मांगलिक वाद्यों और अप्सराओं के समान नर्तकियों के नृत्य की गूंज न केवल राजा के महल में, बल्कि देवताओं के मार्ग आकाश तक व्याप्त हो गई।
पदच्छेदः AI
सुखश्रवाःसुखश्रव (१.३) Pleasant to hear
मङ्गलतूर्यनिस्वनाःमङ्गलतूर्यनिस्वन (१.३) the sounds of auspicious instruments
प्रमोदनृत्यैःप्रमोदनृत्य (३.३) with joyous dances
सहसह along with
वारयोषिताम्वारयोषित् (६.३) of the courtesans
not
केवलंकेवलम् (२.१) only
सद्मनिसद्मन् (७.१) in the palace
मागधीपतेःमागधीपति (६.१) of the king of Magadha
पथिपथिन् (७.१) in the path
व्यजृम्भन्तव्यजृम्भन्त (वि+आ√जृम्भ् कर्तरि लङ् (आत्मने.) प्र.पु. बहु.) resounded
दिवौकसाम्दिव्ओकस् (६.३) of the gods
अपिअपि also
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
सु श्र वा ङ्ग तू र्य नि स्व नाः
प्र मो नृ त्यैः वा यो षि ताम्
के लं द्म नि मा धी तेः
थि व्य जृ म्भ न्त दि वौ सा पि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.