न संयतस्तस्य बभूव रक्षितु-
र्विसर्जयेद्यं सुतजन्महर्षितः ।
ऋणाभिधानात्स्वयमेव केवलं
तदा पितॄणां मुमुचे स बन्धनात् ॥

अन्वयः AI सुत-जन्म-हर्षितः रक्षितुः तस्य यं विसर्जयेत् (सः) संयतः न बभूव । तदा सः केवलं पितॄणाम् ऋण-अभिधानात् बन्धनात् स्वयम् एव मुमुचे ।
सञ्जीविनीटीका (मल्लिनाथः) नेति॥ रक्षितुः सम्यक्पालनशीलस्य तस्य दिलीपस्य। अत एव चौराद्यभावात्। संयतो बद्धो न बभूव नास्ति स्म। किं तेनात आह-विसर्जयेदिति॥ सुतजन्म हर्षितस्तोषितः सन्। यं बद्धं विसर्जयेद्विमोचयेत्। किंतु स राजा तदा पितॄणामृणाभिधानाद्बान्धनात् केवलमेकं यथा तथा। स्वयमेव। एक एवेत्यर्थः। केवलः कृत्स्न एकश्च केवलश्चावधीरितः इति शाश्वतः। मुमुचे। कर्मकर्तरि लिट्। स्वयमेव मुक्त इत्यर्थः। अस्मिन्नर्थे-एष वा अनृणो यः पुत्री इति श्रुतिः प्रमाणम् ॥
Summary AI Overjoyed by his son's birth, the protector king released all his prisoners; there was none he did not set free. At that moment, he himself was automatically released from the only remaining bond: the debt owed to his ancestors.
सारांश AI राजा दिलीप के न्यायपूर्ण राज्य में कोई अपराधी बंदी नहीं था जिसे वे मुक्त करते, अतः पुत्र जन्म के अवसर पर वे स्वयं ही पितृ-ऋण के बंधन से मुक्त हो गए।
पदच्छेदः AI
not
संयतःसंयत (सं√यम्+क्त, १.१) a prisoner
तस्यतद् (६.१) his
बभूवबभूव (√भू कर्तरि लिट् (परस्मै.) प्र.पु. एक.) there was
रक्षितुःरक्षितृ (६.१) of the protector (king)
विसर्जयेत्विसर्जयेत् (वि√सृज् कर्तरि विधिलिङ् (परस्मै.) प्र.पु. एक.) he would release
यंयद् (२.१) whom
सुतजन्महर्षितःसुतजन्महर्षित (१.१) overjoyed by his son's birth
ऋणाभिधानात्ऋणअभिधान (५.१) from that called a debt
स्वयम्स्वयम् himself
एवएव indeed
केवलंकेवलम् (२.१) only
तदातदा Then
पितॄणाम्पितृ (६.३) to the ancestors
मुमुचेमुमुचे (√मुच् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) was released
सःतद् (१.१) he
बन्धनात्बन्धन (५.१) from the bond
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
सं स्त स्य भू क्षि तु
र्वि र्ज ये द्यं सु न्म र्षि तः
णा भि धा ना त्स्व मे के लं
दा पि तॄ णां मु मु चे न्ध नात्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.