श्रुतस्य यायादयमन्तमर्भक-
स्तथा परेषां युधि चेति पार्थिवः ।
अवेक्ष्य धातोर्गमनार्थमर्थवि-
ञ्चकार नाम्ना रघुमात्मसंभवम् ॥

अन्वयः AI अयम् अर्भकः श्रुतस्य तथा युधि परेषां च अन्तम् यायात् इति (विचार्य), अर्थवित् पार्थिवः धातोः गमन-अर्थम् अवेक्ष्य आत्म-संभवं नाम्ना रघुं चकार ।
सञ्जीविनीटीका (मल्लिनाथः) श्रुतस्येति॥ अर्थविच्छब्दार्थज्ञः पार्थिवः पृथिवीश्वरो दिलीपः। अयमर्भको बालकः श्रुतस्य शास्त्त्रस्यान्तं पारं यायात्। तथा युधि परेषां शत्रूणामन्तं पारं च यायात्। यातुं शक्नुयादित्यर्थः। शकि लिङ् च (अष्टाध्यायी ३.३.१७२ ) इति शक्यार्थे लिंङ्। इति होतोर्धातोः अधिवधिलधि गत्यर्थाः इति लधिधातोर्गमनाख्यमर्थमर्थवित्त्वादवेक्ष्यालोच्च। आत्मसंभवं पुत्रं नाम्ना रघुं चकार। लङ्घिवं ह्योर्नलोपश्च(वा.४७९८) इत्यप्रत्यये बलमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यते(उ.सू.२९) इति वैकल्पिके रेफादेशे रघुरिति रूपं सिद्धम्। अत्र शङ्खः-आशौचे तु व्यतिक्रान्ते नामकर्म विधीयते इति ॥
Summary AI 'May this child reach the end of all knowledge and also of his enemies in battle.' Thinking this, the king, an expert in semantics, considered the meaning of 'to go' or 'to move swiftly' associated with the verbal root 'ragh' and thus named his son Raghu.
सारांश AI राजा दिलीप ने 'रघु' धातु के 'गमन' अर्थ को जानकर अपने पुत्र का नाम 'रघु' रखा, ताकि वह शास्त्रों के ज्ञान में पारंगत हों और युद्ध में शत्रुओं पर विजय प्राप्त करें।
पदच्छेदः AI
श्रुतस्यश्रुत (६.१) of knowledge
यायात्यायात् (√या कर्तरि विधिलिङ् (परस्मै.) प्र.पु. एक.) may he reach
अयम्इदम् (१.१) this
अन्तम्अन्त (२.१) the end
अर्भकःअर्भक (१.१) child
तथातथा and
परेषांपर (६.३) of enemies
युधियुध् (७.१) in battle
and
इतिइति thus
पार्थिवःपार्थिव (१.१) the king
अवेक्ष्यअवेक्ष्य (अव√ईक्ष्+ल्यप्) having considered
धातोःधातु (६.१) of the verbal root (रघ्)
गमनार्थम्गमनअर्थ (२.१) the meaning of 'going'
अर्थवित्अर्थविद् (१.१) the knower of meanings
चकारचकार (√कृ कर्तरि लिट् (परस्मै.) प्र.पु. एक.) made (named)
नाम्नानामन् (३.१) by name
रघुम्रघु (२.१) Raghu
आत्मसंभवम्आत्मसंभव (२.१) his own offspring
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
श्रु स्य या या न्त र्भ
स्त था रे षां यु धि चे ति पा र्थि वः
वे क्ष्य धा तो र्ग ना र्थ र्थ वि
ञ्च का ना म्ना घु मा त्म सं वम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.