Loading data... On slow networks this could take a few minutes.
100%

रथाङ्गनाम्नोरिव भावबन्धनं
बभूव यत्प्रेम परस्पराश्रयम् ।
विभक्तमप्येकसुतेन तत्तयोः
परस्परस्योपरि पयचीयत ॥

अन्वयः AI रथाङ्ग-नाम्नोः इव यत् परस्पर-आश्रयं भाव-बन्धनं प्रेम (आसीत्), तत् तयोः प्रेम एक-सुतेन विभक्तम् अपि परस्परस्य उपरि पर्यचीयत ।
सञ्जीविनीटीका (मल्लिनाथः) रथाङ्गेति॥ रथाङ्गनाम्नी च रथाङ्गनामा च रथाङ्गनामानो चक्रवाकौ। पुमान्स्त्रिया (अष्टाध्यायी १.२.६७ ) इत्येकशेषः। तयोरिव तयोर्दपत्योर्भावबन्धनं हृदयाकर्षकं परस्पराश्रयमन्योन्यविषयं यत्प्रेम बभूव तदेकेन केवलेन ताभ्यामन्येन वा। एके मुख्यान्यकेवलाः इत्यमरः (अमरकोशः ३.३.१६ ) । सुतेन विभक्तमपि कृतविभागमपि परस्परस्योपरि पर्यचीयत ववृधे। कर्मकर्तरि लिट्। अकृत्रिमत्वात्स्वयमेवोपचितमित्यर्थः। यदेकाधारं वस्तु तदाधारद्वये विभज्यमानं हीयते। अत्र तु तयोः प्रागेकैककर्तृकमेकैकविषयं प्रेम संप्रति द्वितीयविषयलामेऽपि नाहीयत, प्रत्युतोपचितमेवाभूदिति भावः ॥
Summary AI Their love, which was a mutual bond of affection like that of the pair of Chakravaka birds, though now shared with their one son, seemed only to increase and be heaped up even more for each other.
सारांश AI चक्रवाक पक्षियों के समान उन दोनों का जो परस्पर प्रेम था, वह पुत्र के जन्म के बाद विभाजित होने के बजाय एक-दूसरे के प्रति और अधिक बढ़ गया।
पदच्छेदः AI
रथाङ्गनाम्नोःरथाङ्गनामन् (६.२) of the Chakravaka birds
इवइव like
भावबन्धनंभावबन्धन (१.१) a bond of affection
बभूवबभूव (√भू कर्तरि लिट् (परस्मै.) प्र.पु. एक.) was
यत्यद् (१.१) which
प्रेमप्रेमन् (१.१) love
परस्पराश्रयम्परस्पराश्रय (१.१) mutual
विभक्तम्विभक्त (वि√भज्+क्त, १.१) divided
अपिअपि although
एकसुतेनएकसुत (३.१) by their one son
तत्तद् (१.१) that
तयोःतद् (६.२) their
परस्परस्यपरस्पर (६.१) for each other
उपरिउपरि upon
पर्यचीयतपर्यचीयत (परि√चि भावकर्मणोः लङ् (आत्मने.) प्र.पु. एक.) was increased
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
था ङ्ग ना म्नो रि भा न्ध नं
भू त्प्रे स्प रा श्र यम्
वि क्त प्ये सु ते त्त योः
स्प स्यो रि ची
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.