Loading data... On slow networks this could take a few minutes.
100%

स वृत्तचूलश्चलकाकपक्षकै-
रमात्यपुत्रैः सवयोभिरन्वितः ।
लिपेर्यथावद्ग्रहणेन वाङ्मयं
नदीमुखेनेव समुद्रमाविशत् ॥

अन्वयः AI वृत्त-चूलः सः चल-काक-पक्षैः स-वयोभिः अमात्य-पुत्रैः अन्वितः (सन्) लिपेः यथावत् ग्रहणेन, नदी-मुखेन समुद्रम् इव, वाङ्मयम् आविशत् ।
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः। प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात्॥ (२।३४) इति मनुस्मरणात्तृतीये वर्षे वृत्तचूलो निष्पन्नचूडाकर्मा सन्। डलयोरभेदः। स रघुः। प्राप्ते तु पञ्चमे वर्षे विद्यारम्भं च कारयेत् इति वचनात्पञ्चमे वर्षे चलकाकपक्षकैश्चञ्चलशिखण्डकैः। बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डकः इति हलायुधः। सवयोभिः स्निग्धैः। वयस्यः स्निग्धः सवयाः इत्यमरः (अमरकोशः २.८.१२ ) । अमात्यपुत्रैरन्वितः सन्। लिपेः पञ्चाशद्वर्णात्मिकाया मातृकाया यथावद्ग्रहणेन सम्यग्बोधेनोपायभूतेन वाङ्मयं शब्दजातम्। नद्यामुखं द्वारम्। मुखं तु वदने मुख्यारम्भे द्वाराभ्युपाययोः इति यादवः। तेन कश्चिन्मकरादिः समुद्रमिव। आविशत् प्रविष्टः। ज्ञातवानित्यर्थः॥
Summary AI After his tonsure ceremony, the prince, accompanied by the sons of ministers of his own age who had flowing side-locks, entered the vast ocean of literature through the proper learning of the script, just as a river enters the ocean through its mouth.
सारांश AI चूड़ाकरण संस्कार के बाद हमउम्र मंत्री-पुत्रों के साथ रघु ने वर्णमाला के माध्यम से विद्या के समुद्र में वैसे ही प्रवेश किया, जैसे नदी के मुख से सागर में प्रवेश किया जाता है।
पदच्छेदः AI
सःतद् (१.१) He
वृत्तचूलःवृत्तचूल (१.१) whose tonsure ceremony was performed
चलकाकपक्षकैःचलकाकपक्षक (३.३) with flowing side-locks
अमात्यपुत्रैःअमात्यपुत्र (३.३) with the sons of ministers
सवयोभिःवयस् (३.३) of the same age
अन्वितःअन्वित (अनु√इ+क्त, १.१) accompanied
लिपेःलिपि (६.१) of the script
यथावत्यथावत् properly
ग्रहणेनग्रहण (३.१) by the learning
वाङ्मयम्वाङ्मय (२.१) the world of literature
नदीमुखेननदीमुख (३.१) through a river's mouth
इवइव like
समुद्रम्समुद्र (२.१) the ocean
आविशत्आविशत् (आ√विश् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) he entered
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वृ त्त चू श्च का क्ष कै
मा त्य पु त्रैः यो भि न्वि तः
लि पे र्य था द्ग्र णे वा ङ्म यं
दी मु खे ने मु द्र मा वि शत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.